पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ राकागमसहिते चन्द्रालोके- साभिप्राये विशेष्ये तु भवेत्परिकराङ्करः । चतुण पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ ४० ॥ साभिप्राय इति । अत्र 'देवश्चतुर्भुजः इति विशेष्यं पुमर्थचतुष्टयदानसामथ्या- भिप्रायम् । यथा वा- | स जयत्यरिसार्थसार्थकीकृतनामा किल भीमभूपतिः । | यमवाप्य विदर्भभूः प्रभु हसति द्यामपि शक्रभर्तृकाम् ॥ अत्र भीम इति विशेष्यं शक्रजयोपयोगि ॥ ४० ॥ अतिशयोक्यलङ्कारमाह- अक्रमातिशयोक्तिवेद्युगपत्कार्यकारणे । आलिङ्गन्ति समं देव ! ज्यां शराश्च पराश्च ते ॥४१॥ अक्रमेति । कार्यकारणयोगपद्यकथनमक्रमातिशयोक्तिः। बाणमौर्वीसन्धानल्य कारणस्य कार्यस्य शलक्षितिनिपातस्य साहित्योः ॥ ४१ ॥ अत्यन्ततिशयोक्तिस्तु पौवांपर्यव्यतिक्रमे । अग्रे मानो गतः पश्चादनुनीता प्रियेण सा ॥ ४२ ॥ अत्यन्तेति । कार्यकारणयोः पौर्वापर्यकथनमत्यन्तातिशयोक्तिः अग्ने मान इति प्रियानुनयमाननाशयोकैंपरीत्येनोः ॥ ४२ ॥ चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिने । यामीति प्रियपृष्टाया वलयोऽभवदुर्मिका ।। ४३ ॥ चपलेति । हेतुप्रसकिवित्वेन सम्भावना, तस्यां कार्योत्पत्तिकथने चपला- अतिशयोकिः । ऊर्मिका बाहुभूषणम् । वियोगस्य कारणस्य सम्भावनयैव कार्यस्य कार्यस्योत्पत्तिकथनात् । यथा वा- त्वदूपसम्पदवलोकनजातङ्का पादाब्जयोनिजकराङ्गलिलानेन । भुयाचिराय कमला कलितावधाना । निद्रनुबन्धमनुरोधयितुं धवस्य ॥ अत्र दमयन्त्यासः स्वानादरशड्या तत्प्रयोज्यजागरणप्रतिबन्धकनिद्रानुकूल. व्यापारकथनात् । अन्ये--तु ‘स्वविरोधिकार्यशङ्कया स्वोकावपि चपलातिशयोकैरिद. मुद्दाहरणमित्याहुः । यथा वा- यामि प्रेयसि ! वारिदागमदिने जानीहि मामागतं | चिन्तां चेतसि मा विधेहि कथयत्येवं सबाष्पे मयि ।।