पञ्चमो मयूखः । काव्यप्रकाशे तु- समेन लक्ष्मणा वस्तु वस्तुना यन्निगृह्यते । निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥ कृत्रिमेणाकृत्रिमेण वा साधारणेन धर्मेण किञ्चिद्वस्तु वस्त्वन्तरगोपॐ वण्र्यते यत्र तत्र मीलितालङ्कारः । यथा-- स्वभावचपले नेत्रे भयादाक्षरं वचः । मदः कृतपदस्तन्व्यामाभ्यामपि न लक्ष्यते ॥ अन्न चपलत्वं स्वाभाविकम् अर्धाक्षरत्वमागन्तुकम् , उभयमपि मदसाधारणम् । तेम मदस्य तिरोधानमिति युक्तम् ॥ ३३ ॥ सामान्यालङ्कारमाह- सामान्यं यदि सादृश्याद् भेद एव न लक्ष्यते । पद्माकरप्रविष्टानां मुखं नालाक्ष सुभ्रवाम् ॥ ३४ ॥ सामान्यमिति । किञ्चिद्धर्मसादृश्येन्मेपमानभेदाज्ञानेनोपमेयवर्णने सामान्या- लङ्कार इत्यर्थः । पद्माकरेति लक्ष्यम् । यथा वा- भैमीविनोदाय मुदा सखीभिस्तदाकृतीनां भुवि कल्पितानाम् । नातर्कि मध्ये स्फुटमप्युदीतं तस्यानुबिम्ब मणिवेदिकायाम् ॥ अन्न भिन्नव्यकिज्ञानेऽपि तद्वतभेदाज्ञानात्सामान्यम् । एवं चोपमानस्वरूपतिरो. धानं मीलितं व्यावर्तकधर्माज्ञानकृतभेदतिरोधाने सामान्यमिति फलितम् । अन्ये तु- 'उपमानाज्ञानं मीलितम् उपमेयाज्ञानं सामान्यमित्याहुः । काव्यप्रकाशे तु-- “प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया ।। ऐकात्म्यं बध्यते योगात्तसामान्यमिति स्मृतम् ॥ अपरित्यक्तस्वगुणल्याप्रस्तुतपदार्थेन सम्बन्धादप्रस्तुततया निबन्धनं सामान्या- लङ्कारः। अत्र तइगुणालङ्कारव्यावृत्तये अपरित्यकेति, मीलितालङ्कारव्यावृत्तये अप्रस्तुत तयेति । यथा- कनकद्वगौराझी चञ्चलाचपला सखे ! अविभाव्याऽभिन्नतया प्रियाङ्गणमुपाययौ ॥ अन्न नायिकाविघुतोरभेदभानमित्युकम् ॥-॥३४ ॥ उन्मीलितालङ्कारमाह- हेतोः कुतोऽपि वैशिष्ट्या स्फूर्तिरुन्मीलितं मतम् । लक्षितान्युदिते चन्द्रे पानि च मुखानि च ॥३६॥ हेतोरिति । उपमानापमेयोत्कर्षज्ञानाधायकहेतुकथनमुन्मीलितमित्यर्थः । कस्मादपि हेतोरुपमेयस्य वैशिष्टयाटुपमानाधिक्यात स्फूर्तिर्ज्ञानमित्यक्षरार्थः ।
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/११८
दिखावट