सामग्री पर जाएँ

पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके-- ~ ०९:४८, १ जुलाई २०१९ (UTC)~ ~ ~ ~ ~~ यथा वा- पुनः पुनः काचन कुर्वती कचच्छटाधिया धूपजधूमसंयमम् । सखीस्मितैस्तकित्तन्निजम्नमा बबन्ध तन्मूर्धजचामरे चिरात् ॥ तच्छायसौन्दर्य निपीतधेयः प्रत्येकमालिङ्गदम् रतीशः । रतिप्रतिद्वन्द्वितमासु नूनं नमूषु निर्णीतरतिः कथञ्चित् ॥ इति व्यतिरेकमुखः । पङ्कजं वेति सन्देहोदाहरणम् । अयं च शुद्धो निश्चयान्त- चेति द्वधा । यथा- पदे विधातुयेदि मन्मथो वा ममाभिषिच्येत मनोरथो वा ।। सदा घटेतापि न वा घटेत प्रतिप्रतीकाऽद्भुतरूपशिल्पम् ॥ अयं शुद्धः । किं घनस्य जलधेरथवैवं नैव संशयितुमप्यलभन्त । स्यन्दने परमदूरमपश्यन्निःस्वनश्रुतिसहोपनतं ते ॥ अयं निश्चयान्तः । केचित्तु-संशयलक्षणेऽनेकधर्म प्रकारकत्वं न विवक्षणीयम् । किन्तु विशेषधर्माप्रकारकसामान्यधर्म प्रचारकत्वमेव विवक्षणीयम् । तेन 'कोऽथे किमि दमित्यादिज्ञानानामपि संशयत्वम् । यथा- कान्ते स्वान्ते मदीये निवसति भवती सर्वदेति ब्रुवाणे | प्रेम्णा पत्यो सहासं स्फटिकविमलं (१)वीक्ष्य वक्षस्तदीयम् । प्रामाण्यादस्य वाचां प्रतिफलितमपि स्वीयसत्येति मत्वा | स्वात्मानं तर्कयन्ती किमिदमिति मुहुः पार्वती त्वां पुनातु ॥ अन्न किमिदमित्येककोटिकः संशय इत्याहुः । काव्यप्रकाशस्तु--‘ससन्देह- स्तु भेदोकौ तदनुको तु संशयः । इति संशयसन्देहयोभेदमाह । ‘ससन्देह इत्येक पदम्, तेन भेदोकौ सन्देहवदलङ्कारोऽग्निमस्तु संशयालङ्कारः इति व्याचक्षते । अर्थ भेदकातिशयोक्तिव्य तिरेको वेत्यपि केचित् ॥३१-३२॥ मीलितालङ्कारमाह- मीलितं बहुसादृश्याद् भेदवच्चे लक्ष्यते । रसो नालाक्ष लाक्षायाश्चरणे सहजारुणे ॥ ३ ॥ मीलितमिति । भेदवत् उपमानम्। समानधर्मोपादानेनोपमानस्वरूपाज्ञानपूर्वक मुपमेयवर्णनं मीलितमित्यर्थः । रस इति लक्ष्यम् । यथा वा- गौः शिवस्यापि विलोक्य वक्त्रमाह्वादकं चन्द्रपरागपाण्डु । नालक्षि रूपं खलु भालबालजैवातृकस्यापि सखीसमाजैः ॥ यथा घा काश्मीरजाङ्गरागश्चम्पकगौराङ्गि ! दृश्यते नैव । किमति वृथाअनरेखामिन्दीवरलोचने ! कुरुषे ॥ (१) सविधा६-इति ख ।