पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमो मयूखः । स्मृतिभ्रान्तिसन्देहालङ्कारानाह- स्यात्स्मृतिभ्रान्ति सन्देहैस्तदेवाऽळकृतित्रयम् । पङ्कजं पश्यतः कान्तामुखं मे गाहते मनः ।। ३१ ।। अयं प्रमचमधुपस्त्वन्मुखं वेद पङ्कजम् । पङ्कजं वा सुधांशुवैत्यस्माकं तु न निर्णयः ॥ ३३ ॥ स्यादिति । उपमानोपमेयभावकल्पकसदृशदर्शनेन सदृशान्तरस्मरणकथः स्मरणालङ्कारः । आरोपविषयज्ञानतिरोधानविशिष्टाप्यारोप भ्रान्त्यलङ्कारः । तेन न रूपकेऽतिव्याप्तिः। तत्रारोपविषय(ज्ञान)तिरोधानाभावात् । सादृश्यज्ञानफलकैकाश्रितैक- धर्मिकाऽनेकविरुद्धधर्मवत्ताकथने संशय इत्यर्थः । एकाश्रितेयुके नोल्लिखितातिप्रसङ्गः। त्रितयोदाहरणानि क्रमेणाह-पङ्कजमिति । गाहते स्मरतीत्यर्थः । यथा वा- एतेन ते स्तनभरेण सुरेभकुम्भ | पाणिद्वयेन दिविषद्मपल्लवानि ।। अस्येन स स्मरतु नीरधिमन्थनोत्थं स्वच्छन्दमिन्दुमपि सुन्दर ! मन्दराद्रिः ॥ क्वचिदर्य व्यतिरेकमुखः । यथा- श्रिय नरेन्द्रस्य निरीक्ष्य तस्य स्मरामरेन्द्रावपि न स्मरामः । वासेन तस्मिन् क्षमयोश्च सम्यग्बुद्धौ न दमः खलु शेषबुद्धौ ॥ अत्र त्रयमिति केचित्(१) । “क्वचिद्वैसादृश्येनायमलङ्कारः । यथा- | सीता यदा यदा दुःखं प्रपेदेऽरण्यवतिनी ।। तदा सस्मार शर्माणि गलदुबाष्पो रघूत्तमः ॥ इति केचित् । अयं तु सादृश्यगर्भो बोध्यः । तेन, प्रसादमासाद्य सुरैः ऋतं सा समार सारस्वतसूफिसृष्टेः । देवा हि नान्यद्वितरन्ति किन्तु प्रसय ते साधु धियं ददन्ते ॥ इत्यन्न न स्मरणालङ्कारः । अयमिति प्रान्त्युदाहरणम् । अथे क्वचिन्निश्चयान्तः । येथां- वामे करे निहितवामकपोळपालिः । सा चित्रितेति रघुवीर ! मयाऽनुमेने । श्वासैरथो विरहिणीकुलबालिकेति | ह ! राघवेति वचनादथ जानकीति॥ (१) इदं नास्ति ख-पुस्तके ।