पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके- - भ्रान्तेति । अत्र तपस्य ज्वरसाधारण्यात् भ्रान्तसख्या ज्वरः किमिलि पृष्टे 'न सखि! स्मरः इति सत्यकथनेन भ्रान्तिवारणम् । इयं च सम्भवज्ञान्तिपूर्विका कवि. कल्पितभ्रान्तिपूर्विका चेति द्विधा । आद्योदाहृता । द्वितीया यथा-- जटा नेयं वेणीकृतचकलापो, न गरलं गले कस्तुरीयं, शिरसि शशिलेखा न कुसमम् । इथं भूतिनङ्गे प्रियविरहजन्मा धवलिमा पुराऽरतिभ्रान्त्या कुहमशर ! किं मां प्रहरसि ॥ इयं च तत्वाख्यानोपमेति दण्डी ॥ २६ ॥ छेकापहृतिमाह- छेकापह्नतिरन्यस्य शङ्कया तथ्यनिह्नवे ।। प्रजल्पन्मत्पदे लग्नः कान्तः किं नहि नूपुरः ॥ २७ ॥ छेकेति । अन्येन श्रुतयां रहस्योको तात्पर्यान्तरकथनेन निहवे छेकापतिः नर्मसख प्रति ‘प्रजल्पन्मत्पदे लग्न' इति निवेद्यमाने ‘कान्तः किमित्यन्यया पृष्टे 'न हि नूपुरः इति निहवः । यथा वा- वदन्ती जारवृत्तान्त पत्यो धूत सखीधिया । पतिं बुद्ध्वा 'सखि ! ततः प्रद्धास्मीन्यपूरयत् ॥ ॥ २७ ॥ कैतवपन्हुत्यलङ्कारमाह- कैतवं व्यज्यमानत्वे व्याजाचैर्निहृतेः पदैः ।। नियन्ति स्मरनाराचाः कान्तादृक्पातकैतवात् ॥ २८ ॥ कैतवमिति । आदिना छलादिपदम् । व्याजादिपदैर्यत्र निहुतिर्यज्यते तत्र कैतवापत्यलङ्कारः । यथा वा- अस्या यदास्येन पुरतिरश्च तिरस्कृतं शतरुवान्धकारम् । स्फुटस्फुरङ्गकचच्छलेन तदेव पश्चादिदमस्ति बद्धम् ॥ अत्र केचित्-‘इयं सवापि स्वरूपापह्नतिरुदाहृता । क्वचिद्वेत्वपतिः । यथा- आस्तामनङ्गीकरणाद्भवेन दृश्यः स्मरो नेति पुराणवाणी । तवैव देहं श्रितया श्रियेति नवस्तु वस्तु प्रतिभाति वादः ॥ अत्र स्मरादृश्यत्वे भवकको दाहो न हेतुः, किन्तु तव शोभेति श्लेषण हेत्व: पतिः । क्वचित्फलापह्नतिर्यथा- यदि मधुमथन ! त्वदन्त्रिसेव हृदि विदधाति जहाति वा विवेकी । तदखिलमपि दुष्कृतं त्रिलोक्यां कृतमकृतं न कृतं कृतं च सर्वम् ॥ . अन्न कृतस्याकृतत्वं तत्फलापङ्कुतिः । एवमन्यदप्यूह्यम् । निषेधस्यापि शाब्दुत्वा- थैत्वकृतद्वैविध्येन भेदोऽपि य” इत्याहुः ॥ २८ ॥