पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमो मयूखः । = = = = = = > यथा वी- द्विजपतिग्रसनातिपातकप्रभव कुष्ठसितीकृतविग्रहः । विरहिणीवदनेन्दुजिघत्सया स्फुरति राहुरयं न निशाकरः ॥ निषेधश्च क्वचिच्छब्दतः क्वचिदर्थतोऽपि । तेन- यदस्य यात्राका बलाद्धतं रजः स्फुरत्प्रतापानलधूममञ्जिम । तदेव गत्वा पतितं सुधाम्बुधौ दधाति पङ्कीभवदङ्कत विधौ । इत्यत्र 'तदेवेत्येवकारेण कलङ्कनिषेधस्यार्थत्वेनापतिरलङ्कारः । यथा वा- साक्षात्सुधांशुर्मुखमेव भैम्या दिवि स्फुट लाक्षणिकः शशाः । एतद्ब्रुवौ मुख्यमनङ्गचाप पुष्पं पुनस्तद्गुणमात्रवृया ॥ अत्रापि निषेध आर्थः ॥ २४ ॥ पर्यस्तापहृत्यलारमाह- पर्यस्तापह्नतिर्यत्र धर्म मात्र निषिध्यते । नायं सुधांशुः किं तहि सुधांशुः प्रेयसीमुखम् ।। २६ ।। पर्यस्तेति । धर्ममात्रं, धर्मिणि धर्मनिषेध इत्यर्थः । धर्मिणि धर्मनिषेधपूर्वक तद्धर्मस्यान्यन्नारोपः पर्यस्तापतिः । पूर्वमन्यधर्मारोपः अन्नान्यत्र धर्मारोप इति भेदः । नायमिति । सति चन्द्रे चन्द्रत्वनिषेधेन कामिनीमुखे चन्द्रत्वारोपात् । यथा वा-- जानेऽतिरागादिदमेव बिम्बं बिम्बस्य च व्यकमितोऽधरत्वम् । इयोर्विशेषावगमाऽक्षमाणां नाम्नि भ्रमोऽभूदनयोजनानाम् ॥ अत्राधरेऽधरबिम्बत्वनिषेधपूर्वो बिम्बफ हेतूपन्यासपुर:सरोऽधरबिम्बत्वारोपः। अन्यत्र तु- स एव युक्तिपूर्वश्चेदुच्यते हेत्वपङ्गतिः ।। नेन्दुस्तीवो न निश्यसिन्धोरौर्वोऽयमुत्थितः ॥ से एव, निषेध एवेत्यर्थः ।। अपक्षुतः स्वेइभरः करे तोखपाजुशेदनजलैमिलन्मुहुः। हशोरपि प्रस्तुतमसु साविक धनैः समाधीयत धूमलङघनैः ॥ अर्थ “तुस्त्यक्त्वा बहूनथन् यन्नकल्यावधारणम् ।' इतिलक्षणान्तर्गतो नालङ्कार इत्याह कश्चित्(१) ॥ २९ ॥ भ्रान्तापछुत्यलङ्कारमाह- भ्रान्तापह्नतिरन्यस्य शङ्कया तथ्यनिर्णये । तापं तनोति सोत्कम्पं ज्वरः किं न सखि ! स्मरः ॥ २६ ॥ (१) इत्याकरः इति ख ।