पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कार्गमसहिते चन्द्रालोकै- तेन रूपकपरिणामादिषु नातियाप्तिः । क्वचिदयं भ्रान्तिगर्भोऽपि । यथा- अस्य क्षोणिपतेर्विहायसि यशोशिौ चमत्कुर्वति । द्राक् कपूरजोभ्रमेण वणिजो वीथीमुपस्कुर्वते । चचे चञ्चलयन्ति चन्द्रकिरणभ्रान्त्या चकोराः, पयो- बुद्धया व्याम्नि नियोजयन्ति कलशीमाभीवामझुवः ॥ अन्न- एकेन बहधोत्लेखेऽप्यसौ विषयभेदतः ।। गुरुर्वचस्यर्जनोऽयं की भीष्मः शरासने ॥ अकृशं कुचयोः कृशं वेलग्ने विपुलं चक्षुषि विस्तृत नितम्बै । अरुणाधरमाविरस्तु चित्ते करुणाशालि कपालिभागधेयम् (१) ॥ प्रसुनता तत्करपल्लवस्थितैरुडुच्छवियमविराजिभिः पथि । मुखेऽमराणामनले रदावलेरभाजि लाजैरनयोज्झितैर्युतिः ।। तथा- तया प्रतिष्ठाहुतिधूमपद्धतिर्गता कपोले मृगनाभिशोभिताम् । ययौ इशोरञ्जनतां श्रुतौ श्रिता तमाललीलामलिकेऽलक्रायिता ॥ अत्रे काव्यप्रकाशः-उपमेये उपमानतादात्म्यारोपरूपरूपक एवान्तभवा- न्मालारूपका दिवन्नेदमलङ्कारान्तर मित्याह । यथा वा- अलसं वपुषि इलथं दुकूले चपलं चेतसि धूसर कपोले । चकितं नयने स्तने विलोलं तव नामश्रवणं तनदरीणाम् ॥ पूर्वोदाहरणेषु ब्राह्मगतधर्मभेदः, इह तुगृहीतगतधर्मारोपण ग्राह्यभेद इति विवेकः२३ अपहृत्यलङ्कारमाह- अतथ्यमारोपयितुं तथ्याऽपास्तिरपतिः । नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् ॥ २४ ॥ तथ्यमिति । तथ्यधर्मनिषेधपूर्वकोऽतथ्यधर्मारोपोऽपक्ल तिरित्यर्थः । निषेध पर्वकत्वमेव रूपकाद्भेदः । नायमिति । तथ्यचन्द्रत्वनिषेधपूर्वमतथ्यसरोरुहत्वा- रोपात् । तथ्यत्वं चान्न न प्रमाविषयत्वं, किन्तु निश्चयविषयत्वम् । तेन कविकल्पित धर्मनिषेधेनान्यधमारोपेऽपत्यलङ्कारः । यथा- | अनवगतविभेदं सुन्दर वस्तु किञ्चि- ज्जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे । मम तु मतमनङ्गस्मेरतारुण्यचूर्ण- |म्मदकलमदिराक्षानीविमोक्षो हि मोक्षः ॥ (१) पथमिदं व पुस्तके नास्ति । = = = = =