पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमो मयूखः । भुजे वृक्षत्वारोपोत्तरमेव पञ्चाङ्गलीषु शाखात्वस्यारोपपम्भवत् । इदमैव समस्तवस्तु- विषये सावयवम् ॥ २० ॥ स्याङ्गयष्टिरित्येवंविधमाभासरूपकम् । अङ्गयष्टिधनुर्वेलीत्यादि रूपितरूपकम् ।। २१ ॥ स्यादिति । इदमेव निरवयव शुद्धम् । सायदैकदेशविवति अङ्गयष्टीति । अत्राङ्क- यष्ट्यां धनुर्वल्लीत्वारोपः शब्दोऽङ्गे धनुष्ट्यारोप अर्थ इति । रूपितेनारोपेण रूपक मारोप इति योगः । यथा 'गुणसिन्धु'रित्यादौ गुणे जलत्वारोप आर्थं इति । माला- रूपकं रशनारूपकं च ‘नालङ्कारान्तराग्यमी' इति वक्ष्यमाणत्वान्न लक्षितम् ॥२१॥ परिणामोऽनयोयस्मिन्नभेदः पर्यवस्यति ।। कान्तेन पृष्टा रहास मौनमैवोत्तरं ददौ ।। २३ ।। परिणाम इति । अनयोरारोग्यमागारोपविषययोः, पर्यवस्यति क्रियान्वये फलितो भवतीत्यर्थः । आरोप्यरूयारोपविषयात्मनैव क्रियान्वय इति भावः । कान्तेनेति । मौनस्य उत्तरवचनात्मनव दानक्रियान्वयात् । यथा वा- प्लुष्टः स्वैश्चापरोपैरपि सह मकरैणात्मभूः केतुनाऽभू. | द्धत्ता नस्त्वत्प्रसादादथ मनजित मानसी नन्दनः सन् । भूम्यां ते तन्वि ! धन्वी भवतु तव सितैत्रभल्लः स्मितैः स्त- | दस्तु त्वन्नेत्रचञ्चत्तरशफरयुगाधीनमीनध्वजाः ।। अन्न ध्रुवो धनुरात्मनैव क्रियान्वयः । यथा वा-‘प्रसन्नेन दृगब्जेन वीक्षते मदिरे. क्षणा' इत्यत्राब्जस्यैवारोष्यमाणास्यारोपविषयगात्मना वीक्षणान्वयो न तु अब्जा त्मना शोः, ‘मयूरव्ये सकादयश्चेति समासेनोत्तरपदार्थप्राधान्यावगमात् । यद्यप्ययमुप- मितसमासः स्यात् पूर्वपदप्राधान्यं ३, स तु न सम्भवति । प्रसन्नेनेति साधारणधर्म- वाचकपदप्रयोगात् । उपमितसमासस्यो'पमित व्याघ्रादिभिः सामान्याप्रयोग इत्यनु- शासनेन साधारणधर्मवाचकपदाप्रयोगे विधानात् । एवं चान्न परिणाम एव । अयमपि रूपकवन्न्यूनाधिकधर्मविशिष्टो ज्ञेयः । यथा वा- वनेचराणां वनितासखाना दरीग्रहोत्सङ्गनिषकभासः । भवन्ति यन्नौषधयो रजन्यामतैलपूराः सुरतप्रदीपः ॥ अत्रौषधीनां दीपत्वेन सुरतोपयोग्यन्धकारनाशे उपयोगः । अतैलपूरत्वेनाधिक्य छ । 'अस्य रूपकान्तर्गतिरिति काव्यप्रकाशः ॥ २२ ॥ उल्लेखालङ्कारमाह- बहुभिर्बहुधोल्लेखादेकस्योल्लेखता मता । स्वीभिः कामः प्रियैश्चन्द्रः कालः शत्रुभिरैक्षि सः ॥ २३ ॥ बहुभिरिति । एकस्मिन्नारोपविषयेऽनेककर्तृकोऽनेकरूपरोपं उल्लेख इत्यर्थः।