पञ्चमो मयूखः । ६॥ - - - उत्प्रेक्षालङ्कारमाह- उत्प्रेक्षोन्नीयते यत्र हेत्वादिनिह्नतिं विना ।। त्वन्मुखश्रीकृते नूनं पचैवैरायते शशी ॥ २९ ॥ उत्प्रेक्षेति । उन्नीयते, अन्यधर्मसम्बन्धनान्यतादात्म्येन सम्भाव्यते उत्कट- कोटिकसन्देहविषयीक्रियते । आदिना फलस्वरूपे । निहुति विना, अन्यधर्म निषेध विनेत्यर्थः । एवं च--उपमानतादात्म्यसम्भावनमुत्प्रेक्षा हेतुफलस्वरूपविषया त्रिधा । त्रिविधाया उदाहरणं त्वदिति । अघ्र स्वाभाविकचन्द्रपझविराचे मुखकान्तिलिप्सी न हेतुरिति तत्र तद्धेतुत्वेन सम्भावना हेतूत्प्रेक्षा, कान्तावदनकान्तिप्राप्तेरफलस्यापि फलत्वेनोत्प्रेक्षणादियमेव फलोत्प्रेक्षापि , वस्तुतो वैराऽकर्तर्यपि वैरकर्तृतादात्म्योत्प्रेक्षा स्वरूपोत्प्रेक्षा चेति त्रैविध्यम् । यथा वा- कल्प्यमानममुनाऽऽचमनार्थे गाङ्गमम्बु चुलुकोदरचुम्बि । निर्मलत्वमिलितप्रतिबिम्बद्यामयच्छदुपनीय करे ३ ॥ अन्न प्रतिबिम्बिता द्यौदेयत्वेनोत्प्रेक्षिता, अम्बु च दानकर्तृत्वेनोत्प्रैक्षितम् । ननु चाख्यातवाच्यस्य कर्तुभवप्राधान्यबोधकस्सृत्या धात्वर्थोपसर्जनतयान्वयेनान्यत्रो- पमानतयाऽन्वयासम्भवः । तदुत्वम्- कर्ता यशुपमानं स्यान्न्यग्भूतोऽसौ क्रियापदे । स्वक्रियासाधनव्यग्रो नालमन्यद्वयपेक्षितुम् । इति चेत्, अन्नागत्या उभयथोभयत्वेनान्वयाङ्गीकाराव । यद्वा न छात्रोपमानत्वे. नान्वयः । किन्त्वपक्षुताविवार्थिक उपमानभावः । अस्तु वा 'चन्द्र इवेश्यादाविवार्थ. विशेषणस्यापि चन्द्रस्योपमानत्वेनान्वय इति दिक् । अन्ये तु-नेयं कर्तृतादात्म्यो- त्प्रेक्षा, किन्तु क्रियातादात्म्योत्प्रेक्षारूपा स्वरूपोत्प्रेक्षैव । कमलसङ्कोचनस्योपमेयस्य वैरतादात्म्येनोत्प्रेक्षणात् । अत्र चोपमेयं कमलपङ्कोचनादि कल्प्यते । एवं 'लिम्पती तमोऽझानीत्यादौ व्यापनादिरूपमुपमेयं कल्प्यते । एवं च-चैरमिव करोतीति विवरण न वैरं करोतोवेति । अत एवेयमनुपात्तोपमेयोत्प्रेक्षेप्रत्याहुः । इयं शाब्दी आर्थी चेति द्विधा । मन्ये शई ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥ इत्युत्प्रेक्षाध्यक्षकशब्दसवे शाब्दी, असत्वे आर्थीति । इयं च गूढोत्प्रेक्षेत्युदा- हरिष्यते । पूर्वस्या उदाहरणान्तराणि- पद्माइंसद्मानमवेक्ष्य लक्ष्मीमेकस्य विष्णोः श्रयणात्सपत्नीम् । आस्येन्दुमस्या भजते जिताब्जे सरस्वती तद्विजिगीषया किम् ॥ अन्न दमयन्तीमुखे सरस्वतीवासे विजिगीषा हेतुत्वेनोत्प्रेक्षिता ।
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/११४
दिखावट