पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमो मयूखः । ५३ पमेयत्वम् । एतेन यत्करोषोत्यादविपि कर्मनिदशो किः परास्ता । हृद तस्य यन्मन्ब्रयते रहस्त्वां तद् व्यक्तमामन्त्रयते मुख् यत् ।। तद्वैरिपुष्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मुखस्य । इत्यादौ क्रियानिर्देश विनाप्युपपत्तेश्च । वाचकलुप्ता षोढा- समासगम्या । उप- मानवाचककर्माधारोभयोपपदाचारार्थ विहितक्यच्प्रत्ययगम्या । धातोः कर्मणः सुप आत्मनः क्यच् इत्यनुवृत्तिविशिष्टम् उपमानादाचा' इति पाणिनिसूत्रम्, ‘अधिकरणा- च्चेति वक्तव्यमिति वार्तिकं च विधायकम् । उपमानवाचककत्रुपपदाचारार्थविहितक्य. प्रत्ययगम्या । 'उपमाने कर्मणि चेतिसूत्रेणोपमानवाचककर्मोत्तरविहितणमुल्गम्या । तादृशत्रुपपदोत्तरणमुल्गम्या चेति । यथा-'पल्लवस्निग्धपाटलेति समासगम्या । पुत्रीयति गुरुः शिष्यम्' 'वनीयति सुधागृहे? इति कमऽऽधारयोः क्यधि । यद्यशो राजहंसस्य ब्रह्माण्ड पञ्जरायते । ग्रसिक्षीरायते चास्य पुरस्तात्क्षीरवारिधिः ॥ इति यहि । गृह्वाति चिकुरग्राहं तमः स्तोमं दिवाकरः । प्रातः स भीमसञ्चार सञ्चरत्यतिभीषणः(१) । इति णमुलि । उपमानोपे वाक्ये समासे चायें वेति द्विधा । यथा-'सदृशं स्वत वाक्यस्य किञ्चिन्नास्ति मनोहरम् । इयं वाक्यगार्थी। 'न चन्द्रसदृशं तेजो मिन्नमस्ति प्रकाशकम् ।। इति समासगार्थी । इयं तद्धितगो न सम्भवति । उपमाप्रतिपादकस्य तद्धितस्य वतिकल्पबादेरुपमानादेव विधानेन तदनुपदानेऽसम्भवात् । न वा श्रौती, इवादीनामुपमानमात्रान्विततया तदनुपदाने तेषामप्यनुपादानात् । 'त्वमिव कोऽपि परा- ऽपकृतौ कृती न ददृशे न च मन्मथ ! शुश्रुवे ।' इत्यादादपि 'इवेश्यस्य तुल्यार्थकतया आर्थीत्वाऽविधात इति सम्प्रदायः । तवेव महिमा राम ! न कस्याप्यन्न दृश्यते ।। इत्यादौ श्रौत्यपि सम्भवतीति युके प्रतीमः । “अत्रोपमानस्यैवाभावान्नोपमात्वसम्भवः, तेन चिन्त्यमेतदिति काव्यप्रदीपः । इपमानाऽभावबोध एव (२)उपमानलुलोपमेति युक्तम् । धर्मोपमावाचिपदद्वयलोपवती छिब्गा समासगा च द्वैधा। क्किगो यथा-- कासारन्ति पयोधयो विषधराः कपूरहरन्ति च श्रीखण्डन्ति देवानली मदगजाः सारङ्गशावन्ति च । दासन्युइटावः किमपरं पुष्पन्ति वज्राण्यपि श्रीदामोदरसोदरे ! भगवति ! त्वत्पादनिष्ठात्मनाम् ॥ • (१) अत्र चिकुराहमिति कर्मणि 'भीमसञ्चाररमिति च कर्तरि णमुलूप्रत्ययः ।

(१) सादृश्याभावज्ञाने सति, अर्थादसमत्वप्रतीतौ सत्यामित्यर्थः । साडया-

‘भावशानमेवोपमानलसात्वत्यवहारप्रयोजकमिति भावः । तस्वं तु-अन्नाऽसमत्वे पर्य- वसानम्, कल्पनीयं घोपमान किञ्चिदुत्कृष्टमिति ।