पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३ कागभसहिते चन्द्रालोके-- चन्द्रनिष्ठता प्रतीयते, भित्रविमकिकत्वात् । एवं च चन्द्रस्योपमानताप्रतीत विलम्बः। 'मुखस्य तुल्यश्चन्द्र आह्लादक' इत्यत्र धर्मस्योपमेयनिष्ठत्वप्रतीतौ विलम्बः। ‘चन्द्रो मुख तुल्यमाह्लादक-मित्यत्र समानविभक्तिकत्वेन शीघ्रमुभयनिष्ठत्वप्रतीतावप्युपमानोपमे. यत्वप्रतीतौ प्रकरणादिसहकार्यन्तरापेक्षेत्युपमाया अर्थत्वमाहुः । तथा च-इवयथा- वादिशब्दाना तदर्थविहितवतेश्च समभिव्याहारे शाब्दी । तुल्यसमसमपदानां तदर्थ- विहितवतेश्च समभित्र्याइारे अर्थीति । उभयविधापि तद्धिते समासे वाक्ये चेति षड़, विधा । शाब्दी यथा- म्नदिमा पदयोः सरोजवद् वदनं चन्द्र इव प्रकाशकम् । रघुनाथ ! यथव चन्द्रिका नयने शीतयति प्रियातनुः ॥ अन्न सरोजवदिति वस्प्रत्ययरूपस्तद्धित इवाथ विहित इति शाब्दी तखितगा पूर्णा । न वायं वत्प्रत्ययस्तुल्यार्थे सम्भवति । षष्ठ्यन्तोपपदसत्वेन तत्र तस्येनेत्यनेन विधानात् । चन्द्र इवेति 'हुवेन नित्यसप्तासो विभकायलोपश्चेति समासगी । एवं ६

  • हरिसादृश्यमित्यर्थक'सहरीश्त्यव्ययीभावे सचन्द्रमित्यायव्ययीभावेऽपितत्र ‘अध्ययी-

आवे चाकालेः इति सहस्य सभावः। न ह्येवं 'सचन्द्र सुखमिति प्रयोगापत्तिः । इष्टा. पत्तेः। एवम् 'अनुगङ्ग वाराणसीत्यव्ययीभावेऽपि गङ्गावदायतेत्यर्थः । अन्न आयाम एवं सायं न त्वन्यदिति संक्षेपः । द्वितीयाधे वाक्यगेति । आर्थी यथा-- अठोरोऽनिवच्चापः पद्मतुल्यः करो मृदुः ।। राम ! ते चपले नेत्रे खञ्जनाम्यां समे मते ॥ अन्न वतिस्तुल्यार्थे 'तेन तुल्यं क्रिया चेद्वतिरिति विहित इत्यार्थी तद्धितगा। पद्मतुल्य इति समासगा । द्वितीयाधे वाक्यगेति । लुप्ता धर्मवाचकपदलोपे पञ्चधा । वाक्यगा शाब्दी अर्थी च, एवं समासगी । तखितगा त्वाथ्ये । यथा- मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये !। वाचः सुधा इवौष्ठस्ते बिम्बतुल्यं मनोऽभवत् ॥ अन्न यथेत्यन्ता श्रौती वाक्यगा, 'सम' इत्यन्त वाक्यंगार्थी 'सुधा इवेति समा- सगी श्रौती, 'बिम्बतुल्यमिति समासगी आर्थी, 'अश्मवदिति तद्धितगाऽऽथ्येंव। एवं 'विषकल्पं मनो वेत्सीति ईषदसमाप्त्यर्थंककल्प-प्रत्ययेऽपि तद्धितगाऽऽर्थीति । यथावा- बालकेलिषु तदा यदलावीः खर्परीभिरभिहत्य तरङ्कान् ।। भाविबाणभुजभेदनलीलासूत्रपात इव पातु तदस्मान् ।। अत्र यत्तच्छब्दनिर्देश्यधात्वर्थलवनमुपेयं, सूत्रपात उपमानम् । ऋमिकत्व साधा- रणो धर्मस्तु नोकः । न च धात्वर्थस्याऽसवतया लिङ्गसंख्यान्वयायोग्यत्वेन यत्तच्छब्द. निदेश्यत्वं न सम्भवतीति वाच्यम्, 'यत्करोषि दासीत्यादिवशत्या तन्निर्देशो- पपतेः । यथाकथग्वित्र कर्मनिर्देशसम्भवेऽपि प्रकृते तदसम्भवात् । तरङ्गण निर्देशक बचमानुपपत्तेः । अर्ध एव न जलादिकर्मान्तरकल्पनापि । अतोऽत्र धात्वर्थलवस्यैवो-