पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कांगमसहिते चन्द्रालोके- सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः ।। यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥ समसगा यथा- अयं क इत्यन्यनिवारकाणां गिरा मुहुद्वारि विभुज्य कण्ठम् । दृशं ददे विस्मयनिस्तरङ्गी से लङघितयामपि राजसिंहः ॥ अत्र 'राजसिंहः इति ! उपमानधर्मवाचिपदद्वयलोपवती वाक्यगा समासगा चार्थी। अथा यथा-'न तन्मुखस्य प्रतिमा चराचरे' इति । ‘भ्रमर ! भ्रमता दिगन्तराणि क्वचनाऽऽसादितमीक्षितं श्रुतं वा । घद सत्यमपास्य पक्षपात, यदि जातीकुलमानुकारि पुष्पम् ॥ इति समासगा । उपमोपमेयवाविपदद्वयलोपे यथा-'कृपाणोदप्रदोर्दण्डः स सहस्रायुधीयति ।' अन्न 'सहस्रायुधमिवात्मानमाचरतीत्युपमेयस्यात्मनोऽनुपादाना- दिवादेरनुपादानाचे । एवमष्टादश भेदाः । 'सायते' इत्यादौ क्या कर्तुरेवो. पमेयत्वोपादानेन द्विलोपवल्या इदमप्युदाहरणम् । यद्यपि उपमानोपमेययोरुपमाने- वाघोलपेनान्यपि भेदद्वयं द्विलोपवत्याः सम्भवति, तथापि तत्रोपमायाः प्रसङ्ग एव नास्तीति नोदाहृता । उपमेयभिन्नत्रितयवाचिपदलोपे समासगा यथा-‘मृग- नयना हस्ते मुनेर्मन' इति । अत्र ‘ससम्युपमानपूर्वपदस्य बहुव्रीहिरुत्तरपदलोपश्चेति वातिकेन समालो विहितः । तस्य चायमर्थः–सप्तम्यन्तमुपमानं च पूर्वपदै यस्य तस्य समासस्य पदान्तरेण बहुव्रीहिः पूर्वसमासावयवस्य चोत्तरपदस्य लोप इति । हस्ते स्थितं धनं यस्य स हस्तधनः मृगनयनमिव नयनं यस्याः सा मृगनयने. स्युदाहरणे । न चात्र मृगस्योपमानत्वाभावात्कथमुपमानपूर्वपदत्वमिति वाच्यम् । अवयवधर्मेण समुदायव्यपदेशात् । एवं ६ मृगनयनस्योपमानस्यानुपादानात् त्रितय लोपः । यदा तु मृगपदमेव लक्षणया तन्नयनपरे, मृग एवं वा चञ्चलतयोपमान, 'मृगस्येव नयने यस्याः इति वा समासः, तदा द्विलोप एवं पूर्वोको शेयः। अन्ये तु- उपमेयधर्मोपमावचिकपदलोपेन ‘अयःशूलसदृशदुराचारेच्छावानिति बोधात् त्रिलोप- वत्या सदाहरणम् 'आयःशुलिकइति । अत्र हि 'अन्विच्छतीश्त्यनुवृतौ अयःशुल- दण्डाजिनाम्यां ठकठाविति ठकि अयःशूलेनान्विच्छति आयःशुलिक' इति । अत्रायःशुलपदलक्षितदुराचार उपमेयः । तेनात्रोपमेयवाचिधर्मवाच्युपमावाचिपदत्रय लोप इत्याहुः। 'अध्यवसानप्राधान्येनातिशयोक्तिरूपत्वान्नेयमुपमेति काव्यप्रकाशः। तेन पूर्णोपमाभेदैः सह पञ्चविंशतिरुपमाभेदाः ।। इदमप्यवधेयम्-साधारणो धर्मः क्वचिदेकः, क्वचिद्भिन्नोऽन्येकवाचकानुप्रवेशेनैकवद् भासमानः, काचिद् भित्रपदोपत्तोऽपि बिम्बप्रतिबिम्बभावेनैक्यमापाघमानो भासते । यथोकोदाहरणे दमयन्त्यां मनोवृत्तौ च निश्चलताया ऐक्यम् । द्वितीयस्तु-'हंसीव कृष्ण ! ते कीर्तिः स्वर्गामवगाहते' इत्यत्राकाशगङ्गावगाहनस्य स्वर्गपृथिव्यवगाह-