पृष्ठम्:गौडपादकारिका.pdf/99

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४० गौडपादीयकारिका। न सर्वे धर्मा मृषा स्वप्ने कायस्यान्तनिदर्शनात् । संवृतेऽस्मिन्प्रदेशे भूतानां दर्शनं कुतः ॥ ३३ ॥ (३३) अन्वयः---- सर्वे धर्माः स्वप्ने कायस्य अन्तः निदर्शनात् मृषा; कुतः अस्मिन् संवृते प्रदेशे भूतानां दर्शनं वै ? न युक्तं दर्शनं गत्वा कालस्यानियमाद्गतौ । प्रतिबुद्धश्च वै सर्वस्तस्मिन्देशे न विद्यते ॥ ३४ ॥ (३४) अन्वयः-- गतौ कालस्य अनियमात् गत्वा दर्शनं न युक्तम् ; सर्वः वै प्रतिबुद्धः च तस्मिन् देशे न विद्यते । मित्राद्यैः सह संमन्त्र्य संबुद्धो न प्रपद्यते । गृहीतं चापि यत्किंचित्प्रतिबुद्धो न पश्यति ॥ ३५ ॥ (३५) अन्वयः-- - मित्राद्यैः सह संमन्त्र्य संबुद्धः न प्रपद्यते; प्रतिबुद्धः गृहीतं च अपि यत् किंचित् न पश्यति । स्वप्ने चावस्तुकः कायः पृथगन्यस्य दर्शनात् । यथा कायस्तथा सर्व चित्तदृश्यमवस्तुकम् ॥ ३६ ॥ ( ३६ ) अन्वयः--- स्वप्ने च अन्यस्य ( कायस्य ) पृथक् दर्शनात् कायः अवस्तुःयथा कायः तथा चितदृश्यं सर्वम् अवस्तुकम् । (33) All entities in dream are false on account of their percep- tion within the body. Whence [can there be the perception of exist- ing things within this enclosed region? (34) On account of the non-fixation of time [ required ] for the movement, the perception [ of things ] by ( actually ] going [ there ] [ is ] unwarranted ; and further, [ when ] awakened every one is not in that region [ which he had travelled over to in the dream]. (35) Having conversed together with [ his ] friends etc., one [ when ] re-awakened does not attain [ to all that]; and further whatever had been taken [by one in the dream), one (when] re-awakened does not perceive. ( 36 ) The body in the dream [ is ] again unsubsntial owing to the perception of another [ body as ) distinct ( from it ]; as the body, so all mind-perceivable [ is ) unsubstantial.