पृष्ठम्:गौडपादकारिका.pdf/100

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थ प्रकरणम् । ग्रहणाजागरितवत् तद्धेतुः स्वप्न इष्यते । तद्धेतुत्वात्तु तस्यैव सञ्जागरितमिष्यते ॥ ३७ ॥ (३७) अन्वय:---- जागरितवत् ग्रहणात् स्वप्नः तद्धेतुः इष्यते; तद्धेतुत्वात् तु तस्य ( स्वप्नदृशः ) एव जागरितं सत् इष्यते । उत्पादस्याप्रसिद्धत्वादजं सर्वमुदाहृतम् । न च भूतादभूतस्य संभवोऽस्ति कथंचन ॥ ३८ ।। ( ३८ ) अन्वयः-- उत्पादस्य अप्रसिद्धत्वात् सर्वम् अजम् उदाहृतम् ; भूतात् च अभूतस्य संभवः कथंचन न अस्ति । असज्जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः । असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति ॥ ३९ ॥ (३९) अन्वयः-- जागरिते असत् दृष्ट्वा तन्मयः स्वप्ने पश्यति, स्वमे अपि च असत् दृष्ट्वा प्रतिबुद्धः न पश्यति । नास्त्यसद्धेतुकमसत्सदसद्धेतुकं तथा । सच्च सद्धेतुकं नास्ति सद्धेतुकमसत्कुतः ॥ ४० ॥ (४०) अन्वयः--- असत् असहेतुकं न अस्ति, तथा सत् असहेतुकं (न अस्ति ), सत् च सद्धेतुकं न अस्ति, असत् सद्धेतुकं कुतः ? (37) Owing to the apprehension (of objects in dream, being] similar to [ that in ] the waking state, dream is fancied to have that [ waking state ] as [ its ] cause. And owing to [ dream ] having that [ waking state ] as the cause, the waking state is fancied to be real for him [ that is, the dreamer ] alone. (38) Owing to the production not being quite established, all is laid down as unoriginated. And there is no origination in any way of the non-existent from the existent. (39) Having seen the unreal in the waking state, one being deeply absorbed in it, sees [ the same ] in the dream; and having seen the unreal in the dream also, one [ when ] reawakened sees [ [ it ] not. (40) The unreal has not the unreal as [ its ] cause, likewise the real the unreal as [ its ] cause. The real as well has not the real as [ its ] cause; whence [ can ] the unreal [ have ] the real as [ its] cause? 6