पृष्ठम्:गौडपादकारिका.pdf/98

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थ प्रकरणम् । अजातं जायते यस्मादजातिः प्रकृतिस्ततः । प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति ।। २९ ।। (२९) अन्वयः-- यस्मात् अजातं जायते ततः प्रकृतिः अजातिः; प्रकृतेः अन्यथाभावः कथंचित् न भविष्यति । अनादेरन्तवत्वं च संसारस्य न सेत्स्यति । अनन्तता चादिमतो मोक्षस्य न भविष्यति ॥३०॥ (३०) अन्वय:---- अनादेः संसारस्य अन्तवत्त्वं च न सेत्स्यति, आदिमतः मोक्षस्य अनन्तता च न भविष्यति । आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा । वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ ३१ ॥ (३१) अन्वयः- यत् आदौ अन्ते च न अस्ति, वर्तमाने अपि तत् तथा (न अस्ति); वितथैः सदृशाः सन्तः ( भेदाः) अवितथाः इव लक्षिताः । सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते । तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ ३२ ॥ (३२) अन्वयः--- - तेषां ( भेदानां ) सप्रयोजनता स्वप्ने विप्रतिपद्यते, तस्मात् खलु ते आद्यन्तवत्त्वेन मिथ्याः एव स्मृताः । , ( 29 ) In asmuch as the unoriginated is [ said to be ) origi- nated, therefore non-origination [ is ] [ its] nature. There would not be under any circumstances, a change otherwise of one's ] nature. (30) There would not again be resulting for, be established] the coming to an end of the beginningless mundane creation; and there would not be the endlessness of salvation having a beginning. (31) What is not at the beginning and at the end [ is ] so also in the present ; existing [ things ] [ though ] similar to illusions, are noted as though real. (32) Being possessed of a purpose in [ the case of ] the entities [ in the waking state ] is contradicted in the dream; therefore they indeed are traditionally known as unreal and nothing else (eva) on account of [ their ] having a beginning and an end.