पृष्ठम्:गौडपादकारिका.pdf/97

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गौडपादीयकारिका । प्रज्ञप्तेः सनिमित्तत्वमिष्यते युक्तिदर्शनात् । निमित्तस्यानिमित्तत्त्वमिष्यते भूतदर्शनात् ॥ २५ ॥ (२५) अन्वयः- युक्तिदर्शनात् प्रज्ञप्तेः सनिमित्तत्वम् इष्यते; भूत- दर्शनात् निमित्तस्य अनिमित्तत्वम् इष्यते । चित्तं न संस्पृशत्यर्थं नार्थाभासं तथैव च । अभूतो हि यतश्चार्थो नार्थाभासस्ततः पृथक् ॥ २६ ।। (२६) अन्वयः- चित्तम् अर्थ न संस्पृशति, तथा एव च न अर्था- भासं (संस्पृशति ); यतः च अर्थः हि अभूतः, अर्थाभासः ततः पृथक् न । निमित्तं न सदा चित्तं संस्पृशत्यध्वसु त्रिषु । अनिमित्तो विपर्यासः कथं तस्य भविष्यति ॥ २७ ॥ (२७) अन्वयः---- सदा त्रिषु अध्वसु चित्तं निमित्तं न संस्पृशतिः कथं तस्य अनिमित्तः विपर्यासः भविष्यति ? तस्मान जायते चित्तं चित्तदृश्यं न जायते । तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम् ॥ २८ ॥ (२८) अन्वयः-- तस्मात् चित्तं न जायते, चित्तदृश्यं न जायते; ये तस्य जातिं पश्यन्ति ते वै खे पदं पश्यन्ति । ( 25 ) That the cognition is [ or, has the state of being ] with [ that is, due to some ] cause, is fancied on seeing [ that is, on the strength of the presentation of the above ] logical reasoning: [ but ] that the cause has the state of being without a cause is fancied on seeing ( that is, on the strength of ] the actual state of things [ or, the reality]. (26) The mind does not contact the object, and similarly indeed not the object-appearance. And because the object again [ is ] non-existent, the object-appearance [ is ] not different from it. (27) Ever in the three paths [ of time ], the mind for all time does not contact the cause; how would there be its causeless false impression [ or, modification ] ? (28) Therefore, the mind is not originated, the mind-per- ceivable is not originated [ either ] ; those who perceive its origina- tion, they verily perceive the foot [ - prints of birds ] in the sky!