पृष्ठम्:गौडपादकारिका.pdf/96

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थ प्रकरणम् । पूर्वापरापरिज्ञानमजातेः परिदीपकम् । जायमानाद्धि वै धर्मात्कथं पूर्व न गृह्यते ॥ २१ ॥ (२१) अन्वयः- पूर्वापरापरिज्ञानम् अजातेः परिदीपकम् ; कथं हि जायमानात् धर्मात् पूर्व न गृह्यते ? स्वतो वा परतो वापि न किंचिद्वस्तु जायते । सदसत्सदसद्वापि न किंचिद्वस्तु जायते ॥ २२ ॥ (२२) अन्वयः-- किंचित् वस्तु स्वतः वा परतः वा अपि न जायते; सत्, असत् , सदसत् वा अपि किंचित् वस्तु न जायते । हेतुर्न जायतेऽनादेः फलं चापि स्वभावतः । आदिर्न विद्यते यस्य तस्य ह्यादिर्न विद्यते ।। २३ ॥ (२३) अन्वयः---- स्वभावतः अनादेः हेतुः न जायते, फलं च अपि ( न जायते); यस्य आदिः न विद्यते तस्य हि आदिः न विद्यते । प्रज्ञप्तेः सनिमित्तत्वमन्यथा द्वयनाशतः । संक्लेशस्योपलब्धेश्च परतन्त्रास्तिता मता ॥ २४ ॥ (२४) अन्वयः-- - प्रज्ञप्तेः सनिमित्तत्वम् ; अन्यथा द्वयनाशतः संक्लेशस्य उपलब्धेः च परतन्त्रास्तिता मता । (21) The absence of full knowledge about the priority and posteriority [ of cause and effect ] [ is ] the full illuminator of non- origination. How indeed can not be comprehended the [ thing ] prior to an entity that is being originated for the matter of that? ( 22 ) Nothing whatever is originated either from itself or from something else also; nothing whatever, [ whether ] existent, non-existent or existent-nonexistent as well, is originated. (23) By [ its ) own nature the cause is not originated from the beginningless, and the effect too. For which there is no beginning, there is no cause indeed for it. (24) Cognition is [ or, has the state of being with [ that is, due to some ] cause ; otherwise [ there would be no prajnpti and no cognition of the dravya; so ] on account of the destruction of the dual and on account of the experience of afflictions, the existence [ of external objects in the philosophy of others [ is indicated as ] favoured [ by some 1.