पृष्ठम्:गौडपादकारिका.pdf/95

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गौडपादीयकारिका । 2 फलादुत्पद्यमानः सन्न ते हेतुः प्रसिध्यति । अप्रसिद्धः कथं हेतुः फलमुत्पादयिष्यति ॥ १७ ॥ (१७) अन्वयः----- फलात् उत्पधमानः सन् ते हेतुः न प्रसिध्यति; कथम् अप्रसिद्धः हेतुः फलम् उत्पादयिष्यति ? यदि हेतोः फलासिद्धिः फलसिद्भिश्च हेतुतः । कतरत्पूर्वनिष्पन्नं यस्य सिद्धिरपेक्षया ॥ १८ ॥ (१८) अन्वयः- यदि फलात् हेतोः सिद्धि', हेतुतः च फलसिद्धिः, ( तर्हि ) यस्य अपेक्षया सिद्धिः ( तत् ) कतरत् पूर्वनिष्पन्नम् ? ( अशक्तिरपरिज्ञानं क्रमकोपोऽथ वा पुनः । एवं हि सर्वथा बुद्धरजातिः परिदीपिता ॥ १९॥ (१९) अन्वयः---- अशक्तिः, अपरिज्ञानम् , अथ वा पुनः क्रमकोपः, एवं हि बुद्धैः सर्वथा अजातिः परिदीपिता । बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि सः । न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते ॥ २० ॥ (२०) अन्वयः---- सः बीजाङ्कुराख्या दृष्टान्तः हि सदा साध्यसमः; साध्यसमः हेतुः हि साध्यस्य सिद्धौ न युज्यते । (17) Your cause being brought into being from the effect, would not be substantiated; how will the unsubstantiated cause produce the effect? (18) If [ there is ] the substantiation of the cause from the effect and the substantiation of the effect from the cause, which one [ of the two is ] produced first, whose substantiation [ is ] dependent [ upon the other ] (19) Incapability [ of the hetu to prove the sadhya ), the absence of full knowledge [ about what is prior and what is posterior ], the violation again of [ the reasonable ] order--in view of this ( or, thus ) indeed, non-origination in every way has been blazoned forth by the wise. That ( well-known] illustration called ' seed and sprout' [is } indeed always in the category of ( sama ) ' to be proven'. Surely no reason in the category of 'to be proven employed for the establishment of a thing to be proved. (20 is