पृष्ठम्:गौडपादकारिका.pdf/94

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थ प्रकरणम् । ३५ हेतोरादिः फलं येषामादिर्हेतुः फलस्य च । हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते ॥ १४ ॥ (१४) अन्वय:---- येषां हेतोः आदिः फलम् , हेतुः च फलस्य आदिः, तैः कथं हेतोः फलस्य च अनादिः उपवर्ण्येते ? हेतोरादिः फलं येषामादिर्हेतुः फलस्य च । तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा ॥ १५॥ (१५) अन्वयः-- -येषां हेतोः आदिः फलम् , हेतु: च फलस्य आदिः, यथा पुत्रात् पितुः जन्म तथा तेषां जन्म भवेत् । संभवे हेतुफलयोरेषितव्यः क्रमस्त्वया । युगपत्संभवे यस्मादसंबन्धो विषाणवत् ।। १६ ।। (१६) अन्वयः-~~ हेतुफलयोः संभवे त्वया क्रमः एषितव्यः, यस्मात् युगपत्संभवे विषाणवत् असंबन्धः । (14) For whom [ that is, in whose opinion ] the effect [ is ] the producer [ or, beginning ] of the cause and the cause [ is ] the producer [ or, beginning ] of the effect-how can be [ nonchalantly ] described by them, the beginningless of the cause as well as the effect? (15) For whom [ that is, is whose opinion ] the effect [ is ] the producer [ or, beginning ] of the cause and the cause [ is ] the producer [ or, beginning ) of the effect, for them, there would be the birth in the same manner as the birth of the father from the son ! (16) In the case of ] origination of the cause and effect [if admitted }, the order [ in which this takes place ] has got to be searched after by you, in as much as (yourself ) in the { case of ] simultaneous origination [ of cause and effect ], [ there would be the absence of [ mutual connection, like the [ left and right] horns [ of a bull ]