पृष्ठम्:गौडपादकारिका.pdf/93

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

. गौडपादीयकारिका जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः । जरामरणमिच्छन्तश्च्यवन्ते तन्मनीषया ॥ १० ॥ (१०) अन्वयः- सर्वे धर्माः स्वभावतः जरामरणनिर्मुक्ताः ; जरा- मरणम् इच्छन्तः (ते) तन्मनीषया च्यवन्ते । कारणं यस्य वै कार्यं कारणं तस्य जायते । जायमानं कथमजं भिन्नं नित्यं कथं च तत् ॥ ११ ॥ (११) अन्वयः----- यस्य वै कारण कार्यं तस्य कारणं जायते; जायमानं कथम् अजम् ? भिन्नं च तत् कथं नित्यम् ? कारणाद्यद्यनन्यत्वमतः कार्यमजं यदि । जायमानाद्धि चै कार्यात्कारणं ते कथं ध्रुवम् ॥ १२ ॥ (१२) अन्वयः----- यदि कारणात् अनन्यत्वम् , अतः यदि कार्यम् अजम् , ( तर्हि ) ते जायमानात् वै कार्यात् हि ( अनन्यं ) कारणं कथं ध्रुवम् ? अजाद्वै जायते यस्य दृष्टान्तस्तस्य नास्ति वै । जाताच्च जायमानस्य नव्यवस्था प्रसज्यते ॥ १३ ॥ (१३ ) अन्वयः--- यस्य वै अजात् जायते तस्य वै दृष्टान्तः न अस्ति; जातात् च जायमानस्य नव्यवस्था प्रसज्यते । ( 10 ) All entities [ are ] by nature freed from old age and death. Wishing for old age and death, they deviate [ from their nature ] by the thought of them, (II) For whom indeed [ that is, who holds that ] the cause [ is ) the effect, for him [ that is, he would have to admit that ] the cause is originated; (if the cause is ] being originated, how I can it be ] unborn and how again [ can ] That [if] modified [ be (eternal? (12) If [ it is argued by you that there is ] non-difference [ of the effect ] from the cause, and therefore if the effect ( is regard- ed as] unoriginated, how [ can your .cause indeed [ which is non-different from the effect being originated [ be spoken of by you as ] unchanging ? (13). For whom [ that is, in whose opinion ] [ the effect ] is originated from the uporiginated. [ cause ], for him there is assuredly no illustration [to corroborate his theory]; and in the case ] of [ the effect ] being originated from the originated, there would be the undesirable contingency of the regressus ad infinitum.