पृष्ठम्:गौडपादकारिका.pdf/92

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थं प्रकरणम् । अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिमः। अजातो ह्यमृतो धर्मों मर्त्यतां कथमेष्यति ॥ ६ ॥ (६) अन्वयः-- वादिनः अजातस्य एवं धर्मस्य जातिम् इच्छन्ति; अजातः हि अमृतः धर्मः, ( सः ) कथं मर्त्यताम् एष्यति ? न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा । प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति ॥ ७॥ (७) अन्वयः-- अमृतं मर्यं न भवति, तथा मर्त्यम् अमृतं न ( भवति); प्रकृतेः अन्यथाभावः कथंचित् न भविष्यति । स्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यताम् । कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ ८ ॥ (८) अन्वयः-- यस्य स्वभावेन अमृतः धर्मः मर्त्यतां गच्छति तस्य कृतकेन अमृतः कथं निश्चलः स्थास्यति ? सांसिद्धिकी स्वाभाविकी सहजा अकृता च या । प्रकृतिः सति विज्ञेया स्वभावं न जहाति या ॥ ९ ॥ (९) अन्वयः-- या सांसिद्धिकी स्वाभाविकी सहजा अकृता च, या स्वभावं न जहाति, सा प्रकृतिः इति विज्ञेया। (6) The disputants [ dvaitins ] wish [ to prove ] the origination of the entity [ which is ] verily unoriginated. How indeed can an unborn [ and therefore ] immortal entity, pass on to mortality? (7) The immortal does not become mortal, nor likewise the mortal immortal. There would not be under any circumstances, a change otherwise of [ one's ] nature. (8) [ He ] for whom [ that is, in whose opinion ] an entity immortal in [ its ) own nature, goes to mortality--how will the immortal of his [ that is, admitted by him ] artificially made [or, subject to artificial effort ], remain changeless [ or, unmoving ]? (9) That should be well known as nature which [is ] fully established, natural, inborn and not made [ artificially ), [and] which does not abandon (its ] own nature.