पृष्ठम्:गौडपादकारिका.pdf/91

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२ गौडपादीयकारिका । अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः ।। अविवादोऽविरुद्धश्च देशितस्तं नमाम्यहम् ॥ २॥ (२) अन्वयः- (येन) सर्वसत्त्वसुखः हितः अविवादः अविरुद्धः च अस्पर्शयोगः वै नाम देशितः तम् अहं नमामि । भूतस्य जातिमिच्छन्ति वादिनः केचिदेव हि । अभूतस्यापरे धीरा विवदन्तः परस्परम् ॥ ३ ॥ (३) अन्वयः----- केचित् एव वादिनः हि भूतस्य जातिम् इच्छन्ति, अपरे धीराः अभूतस्य (जातिम् इच्छन्ति ), परस्परं विवदन्तः ( एवम् एते)। भूतं न जायते किंचिदभूतं नैव जायते । विवदन्तो द्वया ह्येवमजातिं ख्यापयन्ति ते ॥ ४ ॥ (४) अन्वयः----- भूतं किंचित् न जायते, अभूतं (किंचित् ) न एव जायते; एवं विवदन्तः ते द्वयाः हि अजातिं ख्यापयन्ति । ख्याप्यमानामजाति तैरनुमोदामहे वयम् । विवदामो न तैः सार्धमविवादं निबोधत ॥ ५ ॥ (५) अन्वयः- वयं तैः ख्याप्यमानाम् अजातिम् अनुमोदामहे; तैः सार्धं न विवदामः; (अजातिम् ) अविवाद निबोधत । (2) I bow down to him [ by whom ] was preached the non-touch-Yoga verily so called, [ which is for ] the pleasure of all beings, beneficial, without any dispute and unopposed (3) Some disputants indeed fancy the origination of the existent; other intelligent [ disputants ], of the non-existent; [ thus they are seen ] disputing with one another. (4) No existent whatever is originated; a non-existent is assuredly not originated; those dualists [ disputants ] indeed disput- ing thus proclaim non-origination. (5) We endorse the ron-origination proclaimed by them; we dispute not with them. Know [ how the ajătivāda is ] free from dispute.