पृष्ठम्:गौडपादकारिका.pdf/90

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थ प्रकरणम् । ३१ यदा न लीयते चित्तं न च विक्षिप्यते पुनः । । अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ ४६ ।। (४६) अन्वयः---- यदा चित्तं न लीयते, पुनः च न विक्षिप्यते तदा तत् अनिङ्गनम् अनाभासं (सत् ) ब्रह्म निष्पन्नम् । स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम् । अजमजेन ज्ञेयेन सर्वज्ञं परिचक्षते ॥ ४७ ।। (४७) अन्वयः--- स्वस्थं शान्तं सनिर्वाणम् अकथ्यम् उत्तमं सुखम् ज्ञेयेन अजेन अजं परिचक्षते । न कश्चिज्जायते जीवः संभवोऽस्य न विद्यते । एतत्तदुत्तमं सत्यं यत्र किंचिन्न जायते ॥ ४८ ।। (४८) अन्वयः-- - कश्चित् जीवः न जायते, अस्य संभवः न विद्यते; एतत् तत् उत्तमं सत्यं यत्र किंचित् न जायते । इति गौडपादीयकारिकायां तृतीयं प्रकरणन् । चतुर्थं प्रकरणम् । ज्ञानेनाकाशकल्पन धर्मान्यो गगनोपमान् । ज्ञेयाभिन्नेन संबुद्धस्तं वन्दे द्विपदां वरम् ॥ १ ॥ (१) अन्वयः--- यः आकाशकल्पेन ज्ञेयाभिन्नेन ज्ञानेन गगनोपमान् धर्मान् संबुद्धः तं द्विपदां वरं वन्दे । (46) When the mind does not lie low, and is not again tossed about, then that [ being ] without movement, and not pre- senting any appearance, culminates into Brahman. (47) Resting in itself, calm, with Nirvana, indescribable, highest happiness, unborn ( and one ) with the unborn knowable, omniscient-[ thus of it ] they say. (48) No creature whatever is born; no origination of it exists ( or, takes place ). This [ is ] that highest truth where noth- ing whatever is born. Here ends the Third Chapter in the Gaudapada-karika. FOURTH CHAPTER (1) I salute that best of the bipeds, who by jñāna almost like the sky [ and ] not different from the knowable, fully realised the entities [ or, jivas, individual souls) comparable to the sky.