पृष्ठम्:गौडपादकारिका.pdf/88

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयं प्रकरणम् । ग्रहो न तत्र नोत्सर्गश्चिन्ता यत्र न विद्यते । आत्मसंस्थं तदा ज्ञानमजाति समतां गतम् ।। ३८ ॥ (३८) अन्वयः-- यत्र चिन्ता न विद्यते तत्र ग्रहः न, उत्सर्गः न; तदा आत्मसंस्थं ज्ञानं अजाति समतां गतम् । अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिभिः । योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः ॥ ३९ ॥ (३९) अन्वयः-- सर्वयोगिभिः दुर्दर्शः अस्पर्शयोगः वै नाम; अभये भयदर्शिनः योगिनः हि अस्मात् बिभ्यति । मनसो निग्रहायत्तमभयं सर्वयोगिनाम् । दुःखक्षयः प्रबोधश्चाप्यक्षया शान्तिरेव च ॥ ४० ॥ (४०) अन्वयः---- सर्वयोगिनां मनसः निग्रहायत्तम् अभयम् , दुःख- क्षयः प्रबोधः अपि च, अक्षया शान्तिः एव च । उत्सेक उदधेर्यद्वत्कुशाग्रेणैकबिन्दुना । मनसो निग्रहस्तद्वद्भवेदपरिखेदतः ॥४१॥ (४१) अन्वयः---- यद्वत कुशाग्रेण एकबिन्दुना उदधेः उत्सेकः तद्वत् अपरिखेदतः मनसः निग्रहः भवेत् । ( 38 ) Where there does not exist thought, there [is] no taking up that is, apprehension ), no giving up [ either ). At that time the jñāna well set in itself [ or, in the Atman ], [ is ] non- originated [ and ] remaining the same [ lit. going to sameness ). ( 39 ) [This is) verily, the 'non-touch-Yoga' by name, difficult to be realised by all [ ordinary ] Yogins; the Yogins are indeed afraid of it, seeing fear in something free from fear. (40) For all Yogins, depending upon the control of the mind, [ are ] absence of fear, destruction of misery, and complete awaken- ing and eternal peace itself. (41) As [ there would be ) the draining out of the sea by one drop [ of water at a time ] by means of the point of [ a blade of ] Kusa grass, so would be the control of the mind without all our toiling.