पृष्ठम्:गौडपादकारिका.pdf/87

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८ गौडपादीयकारिका । निगृहीतस्य मनसो निर्विकल्पस्य धीमतः । प्रचारः स तु विज्ञेयः सुषुप्तेऽन्यो न तत्समः ॥ ३४ ॥ (३४) अन्वयः---- निगृहीतस्य निर्विकल्पस्य धीमतः मनसः सः प्रचारः तु विज्ञेयः; सुषुप्ते अन्यः (प्रचारः), तत्समः न ! लीयते हि सुषुप्ते तन्निगृहीतं न लीयते । तदेव निर्भयं ब्रह्म ज्ञानालोकं समन्ततः ॥ ३५ ॥ (३५) अन्वयः--- सुषुप्ते हि तत् ( मनः) लीयते, निगृहीतं (तत्) न लोयते, तत् एव निर्भयं समन्ततः ज्ञानालोकं ब्रह्म । अजमनिद्रमस्वप्नमनामकमरूपकम् । सकृद्विभातं सर्वज्ञं नोपचारः कथंचन ॥ ३६॥ (३६) अन्वयः---- - (ब्रह्म ) अजम् , अनिद्रम् , अस्वप्नम् , अनामकम् , अरूपकं, सकृद्विभातं, सर्वज्ञम् ; कथंचन न उपचारः। सर्वाभिलाषविगतः सर्वचिन्तासमुत्थितः । सुप्रशान्तः सकृज्ज्योतिः समाधिरचलोऽभयः ॥ ३७॥ (३७) अन्वयः-~- सर्वाभिलाषविगतः सर्वचिन्तासमुत्थितः सुप्रशान्तः सकृज्ज्योतिः अचलः अभयः समाधिः। . (34) But that procedure of the mind completely controlled [ and ] free from imagination, endowed with discernment [ or, of the discerning person ] has to be known properly; [ the procedure of the mind) in sleep sleep [is] different, not like that [ of the Nigrhita mind, described above ]. (35) In deep sleep indeed, it [ the mind ] is laid low; completely controlled [ it ) is not laid low. That itself [is] the Brahman void of fear, with the illumination of jñāna all around, (36) unborn, without sleep, without dream, without name, without form, flashing up once for all, [ and ) omniscient. ( There is in this description of Brahman ] no figurative use in any way whatever. (37) [ That is ] the intense concentration, gone beyond all statement in words, risen above all thought, completely calm, illumination once for all, unmoving [ and ] free from fear.