पृष्ठम्:गौडपादकारिका.pdf/86

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयं प्रकरणम् । २७ अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः। अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः॥३०॥ (३०) अन्वयः-- स्वप्ने च अद्वयं मनः द्वयाभासं, न संशयः; तथा जाग्रत् च अद्वयं ( मनः) द्वयाभासं, न संशयः । मनोदृश्यामिदं द्वैतं यत्किंचित्सचराचरम् । मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते ॥ ३१ ॥ (३१) अन्वयः- इदं यत्किंचित् सचराचरं द्वैतं मनोदश्यम् ; मनसः अमनीभावे हि द्वैतं न एवं उपलभ्यते । आत्मसत्यानुबोधेन न संकल्पयते यदा । अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् ।। ३२ ॥ (३२) अन्वयः--- यदा आत्मसत्यानुबोधेन (मनः) न संकल्पयते तदा अमनस्तां याति, ग्राह्याभावे तत् अग्रहम् । अकल्पकमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते । ब्रह्म ज्ञेयमजं नित्यमजेनाजं विबुध्यते ।। ३३ ।। (३३) अन्वयः- अकल्पकम् अजं ज्ञानं ज्ञेयाभिन्न प्रचक्षते; अजं नित्यं ब्रह्म ज्ञेयम् ; अजम् अजेन विबुध्यते । ( 30 ) In dream again, the non-dual mind [is] appear- ing as dual, no doubt ( about it ] ; and similarly in the waking state, the non-dual mind [ is ] appearing as dual, no doubt, ( 37 ) ( All ] this duality whatsoever, comprising the movable and the immovable, [ is ] perceivable by the mind; when the mind has indeed become non-mind, duality is assuredly not experienced. ( 32 ) When [ the mind ] does not imagine owing to the comprehension of the truth about [or, namely ] Atman, [ it ) goes to the state of non-mind; it [ is ] without cognition in the absence of the cognisable. (33) They assert the jnana free from imagination [ and ] unborn as [ being ) not different from the knowable. Brahman ( is ] the knowable, unborn ( and ) eternal. (Thus ) is made known the unborn by the unborn