पृष्ठम्:गौडपादकारिका.pdf/85

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६ गौडपादीयकारिका। स एष नेति नेतीति व्याख्यातं निह्रते यतः । सर्वमग्राह्यभावेन हेतुनाजं प्रकाशते ॥ २६ ॥ (२६) अन्वयः-- यतः सः एषः न इति न इति व्याख्यातम् अग्राह्यभावेन हेतुना सर्वं निह्रुते, अजं प्रकाशते । सतो हि मायया जन्म युज्यते न तु तत्वतः । तत्त्वतो जायते यस्य जातं तस्य हि जायते ॥ २७ ॥ (२७) अन्वयः- सतः जन्म मायया हि युज्यते, न तु तत्त्वतः; यस्य तत्त्वतः जायते तस्य हि जातं जायते । असतो मायया जन्म तत्वतो नैव युज्यते । वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते ॥ २८ ॥ (२८) अन्वयः-- असतः मायया, तत्त्वतः जन्म न एव युज्यते; वन्ध्यापुत्रः तत्त्वेन मायया वा अपि न जायते । यथा स्वप्ना द्वयाभासं स्पन्दते मायया मनः। तथा जाग्रद्वयाभासं स्पन्दते मायया मनः ॥ २९ ॥ . (२९) अन्वयः-- यथा मायया मनः स्वप्ने द्वयाभासं स्पन्दते तथा मायया मनः जाग्रत् द्वयाभासं स्पन्दते । ( 26 ) As the explanation viz. ' This one, he [ is ] not, [ is ] not' denies [or, conceals ] all by the reason of the incomprehensi- bility [ of Atman ], the unborn [ Atman ] shines forth. (27) The birth of the existent is indeed reasonable through Maya, but not in reality. For whom [ that is, in whose opinion ] is born [ the existent ) in reality, for him [ that is, he would have to admit ] indeed the [ already ] born is born ! (28) The birth of the non-existent [ either ] through Maya [ or ] in reality is assuredly not reasonable; the son of a barren woman is not born either in reality or through Māyā even. (29) As through Mayā the mind in dream vibrates into the appearance of two [ grāhya and grahaka ], so through Mayā the mind in the waking stare vibrates into the appearance of two [ grāhya and grahaka].