पृष्ठम्:गौडपादकारिका.pdf/83

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ गौडपादीयकारिका। अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते । तेषामुभयथा द्वैतं तेनायं न विरुध्यते ॥ १८ ॥ (१८) अन्वयः----- अद्वैतं हि परमार्थः, द्वैतं तद्भेदः उच्यते; तेषां (द्वैतिनाम् ) उभयथा द्वैतम्; तेन अयं न विरुध्यते । मायया भिद्यते ह्येतन्नान्यथाजं कथंचन । तत्त्वतो भिद्यमाने हि मर्त्यताममृतं व्रजेत् ॥ १९ ।। (१९) अन्वयः----- एतत् हि अजम् ( अद्वैतं) मायया भिद्यते, अन्यथा कथंचन न; तत्त्वतः हि भिद्यमाने अमृतं मर्त्यतां व्रजेत् । अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो भावो मर्त्यंतां कथमेष्यति ॥ २०॥ (२०) अन्वयः वादिनः अजातस्य एव भावस्य जातिम् इच्छन्ति; अजातः अमृतः भावः हि कथं मर्त्यताम् एष्यति । न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा । प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति ।। २१ ।। (२१) अन्वयः---- अमृतं मर्त्यं न भवति, तथा मर्त्यम् अमृतं ( न भवति ); प्रकृतेः अन्यथाभावः कथंचित् न भविष्यति । (18) Non-duality [ is ] indeed the highest reality; duality is spoken of as its outcome [ or, modification ). For them [ the dualists, exists ] duality in both ways; therefore [ or, with that dvaita ] this advaita ] does not conflict. [ (19) This unborn ( advaita ] indeed becomes modified [ or, different through Māyā, not otherwise under any circumstances. If indeed it vere to be modified in reality, the immortal would go the way of mortality! (20) The disputants [ dvaitins ] wish to prove ] the origination of the entity (which is) verily unoriginated. How indeed can an unborn (and therefore] immortal entity, pass on to mortality? (21) The immortal does not become mortal, nor likewise the mortal immortal. There would not be under any circumstances, a change otherwise of [ one's ] nature.