पृष्ठम्:गौडपादकारिका.pdf/82

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयं प्रकरणम् । २३ जीवात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेः प्रकीर्तितम् । भविष्यवृत्या गौणं तन्मुख्यत्वं हि न युज्यते ॥ १४ ॥ (१४) अन्वयः -- उत्पत्तेः प्राक् यत् जीवात्मनोः पृथक्त्वं प्रकीर्तितम् तत् भविष्यवृत्त्या गौणम् ; मुख्यत्वं हि न युज्यते । मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा । उपायः सोऽवताराय नास्ति भेदः कथंचन ।। १५ ।। (१५) अन्वयः---- या मृल्लोहविस्फुलिङ्गाद्यैः अन्यथा सृष्टिः चोदिता, सः अवताराय उपायः; भेदः कथंचन न अस्ति । आश्रमास्त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः । उपासनोपदिष्टेयं तदर्थमनुकम्पया ॥ १६ ॥ (१६) अन्वयः--- हीनमध्यमोत्कृष्टदृष्टयः त्रिविधाः आश्रमाः: इयम् उपासना तदर्थम् अनुकम्पया उपदिष्टा । स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् । परस्परं विरुध्यन्ते तैरयं न विरुध्यते ॥ १७ ॥ (१७) अन्वयः--- द्वैतिनः स्वसिद्धान्तव्यवस्थासु दृढं निश्चिताः; (द्वैतिनः ) परस्पर विरुध्यन्ते; तैः अयम् ( आत्मैकत्वदर्शनपक्षः ) न विरुध्यते । (14) What separateness of Jiva and Atman prior to creation, has been declared, that is } figurative, referring [ as it does ] to the state to come; ( to regard it as having the nature of the primary ( sense ) indeed does not fit in. (15) The creation which has been authoritatively mentioned otherwise by [ illustrations of į earth, iron, sparks etc, that [ is ] a device for the grasping of the true position ] ; no difference what- soever [ between Jiva and Arman ] exists. (16) There are ] three-fold stages of life, having low, middle and excellent vision; this ( mode of ] worship is prescribed for them, out of compassion [ by the śruti ). (17) The dualists are firmly fixed in (their ) laying out of their conclusions; they contradict one another; this ! (Ajātivāda) does not conflict with them.