पृष्ठम्:गौडपादकारिका.pdf/81

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२ गौडपादीयकारिका । संघाता। स्वप्नवत्सर्व आत्ममायाविसर्जिताः । आधिक्यै सर्वसाम्ये वा नोपपत्तिर्हि विद्यते ॥ १० ॥ (१०) अन्वयः- सर्वे संघाताः स्वप्नवत् आत्ममायाविसर्जिताः, आधिक्ये सर्वसाम्ये वा उपपत्तिः हि न विद्यते । रसादयो हि ये कोशा व्याख्यातास्तैत्तिरीयके । तेषामात्मा परो जीव: खं यथा संप्रकाशितः ॥ ११ ॥ (११) अन्वयः---- ये हि रसादयः कोशाः तैत्तिरीयके व्याख्याताः तेषाम् आत्मा परः जीवः यथा खं संप्रकाशितः । द्वयोर्द्वयोर्मधुज्ञाने परं ब्रह्म प्रकाशितम् । पृथिव्यामुदरे चैव यथाकाश: प्रकाशितः ॥ १२ ॥ (१२) अन्वयः-- मधुज्ञाने द्वयोः द्वयोः परं ब्रह्म प्रकाशितम् ; यथा पृथिव्याम् उदरे च एव आकाशः प्रकाशितः । जीवात्मनोरनन्यत्वमभेदेन प्रशस्यते । नानात्वं निन्द्यते यच्च तदेवं हि समञ्जसम् ॥ १३ ॥ (१३) अन्वयः - यत् जीवात्मनोः अनन्यत्वम् अभेदेन प्रशस्यते, नानात्वं च निन्द्यते, तत् हि एवं समञ्जसम् । ( 10 ) All aggregates are set forth by the Māyā of Atman, like dream. In [ respect of ] [ their ] superiority or equality every. where, there does not exist any proper ground ( which would enable us to prove that the samghatas are real ]. (II) The sheaths, essence etc. that are indeed expounded in the Taittiriyaka upanisad] of them, the supreme Jiva is clearly shown up as Atman, like Akasa. ( 12 ) In the Madhu-jñāna ( that is, Madhuvidya chapter in the Brhadaranyakopanisad ], in the various [ or, in each of the ] pairs [ described as Adhidaiva and Adhyătma I is shown up the Highest Brahman, as Akasa is shown up in the earth and in the belly itself. (13) That the identity of Jiva and Atman without any difference, is praised and variety [ or, multiplicity ] is censured-that is indeed rational only thus [ by assuming that Jiva is the creation [ of Maya ).