पृष्ठम्:गौडपादकारिका.pdf/80

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयं प्रकरणम् । २१ रूपकार्यसमाख्याश्च भिद्यन्ते तत्र तत्र वै । आकाशस्य न भेदोऽस्ति तद्वज्जीवेषु निर्णयः ॥ ६ ॥ (६) अन्वयः---- तत्र तत्र वै रूपकार्यसमाख्याः च भिद्यन्ते; आकाशस्य भेदः न अस्ति; तद्वत् जीवेषु निर्णयः । नाकाशस्य घटाकाशो विकारावयवौ यथा । नैवात्मनः सदा जीवो विकारावयवौ तथा ।। ७ ।। (७) अन्वयः यथा आकाशस्य घटाकाशः विकारावयवी न, तथा आत्मनः सदा जीवः विकारावयवौ न एव । यथा भवति बालानां गगनं मलिनं मलैः। तथा भवत्यबुद्धानामात्मापि मलिनो मलैः ॥ ८ ॥ (८) अन्वयः---- यथा बालानां गगनं मलैः मलिनं भवति तथा अबुद्धानाम् आत्मा अपि मलैः मलिनो भवति । मरणे संभवे चैत्र गत्यागमनयोरपि । स्थितौ सर्वशरीरेषु आकाशेनाविलक्षणः ॥ ९ ॥ (९) अन्वयः- मरणे संभवे च एव, गत्यागमनयोः अपि, स्थितौ, सर्वशरीरेषु आकाशेन अविलक्षणः ( आत्मा )। 1 (6) in the various cases ( lit. there and there ) indeed, form, function and name [ do ) differ, [ but ] there is no splitting up of the Akasas so the upshot in [ respect of ] the individual souls. (7) As the Ghatākāśa [is] no transformation or portion of the Akāśa, similarly [is] the individual soul always no transformation or portion of Atman. (8) As the sky becomes to { that is, in the opinion of] the children, soiled owing to impurities, similarly Atman also becomes to ( that is, in the opinion of) the non-wise, soiled owing to impurities. (9) In death and verily in birth, in going and coming as well, in remaining in position, in all bodies, i Atman is not dissimilar to the Akāśa.