पृष्ठम्:गौडपादकारिका.pdf/79

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२० गौडपादीयकारिका। अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम् । यथा न जायते किंचिज्जायमानं समन्ततः॥२॥ (२) अन्वयः--- अतः अकार्पण्यम् अजाति समतां गतं वक्ष्यामि यथा समन्ततः जायमानं किंचित् न जायते । आत्मा ह्याकाशवज्जीवैर्घटाकाशैरिवोदितः। घटादिवच्च संघातैर्जातावेतन्निदर्शनम् ॥ ३॥ ( ३ ) अन्वयः---- आत्मा हि आकाशवत् जीवैः घटाकाशैः इव उदितः, घटादिवत् च संघातैः ( उदितः ); जातौ एतत् निदर्शनम् । घटादिषु प्रलीनेषु घटाकाशादयो यथा । आकाशे संप्रलीयन्ते तद्वज्जीवा इहात्मनि ॥४॥ (१) अन्वयः--- यथा घटादिषु प्रलीनेषु घटाकाशादयः आकाशे संपलीयन्ते, तद्वत् जीवाः इह आत्मनि ( संप्रलीयन्ते)। यथैकस्मिन्धटाकाशे रजोधूमादिभिर्युते । न सर्वे संप्रयुज्यन्ते तद्वतज्जीवाः सुखादिभिः ॥ ५ ॥ (५) अन्वयः--- यथा रजोधूमादिभिः युते एकस्मिन् घटाकाशे सर्वे (घटाकाशाः) न संप्रयुज्यन्ते, तद्वत् जीवाः सुखादिभिः (न संप्रयुज्यन्ते)। (2) I shall therefore speak of the non-pitiableness (which is] without birth, maintaining sameness throughout, so that anything [ supposed as ] being born all around is not [ really ] born. (3) Atman like the Akasa rises up indeed in [ the form of ] Jivas [ individual souls ] like Ghatakasas [ spaces enclosed by earthen jars ], and in [ the form of ] aggregates [ bodies etc.] like earthen jar etc. This [ is ] the illustration in [ the matter of ] birth ! or, origination] (4) As the earthen jar etc. being dissolved, Ghatakasa etc. are dissolved in the Akasa, so [ are dissolved ] the individual souls here in Atman. (5) As when one Ghatakasa is connected with dust, smoke etc , not all [ Ghatakasas ] are associated [ with then ], so [ are ] the individual souls with happiness etc.