पृष्ठम्:गौडपादकारिका.pdf/78

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयं प्रकरणम् । निःस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च । चलाचलनिकेतश्च यतिर्यादृच्छिको भवेत् ॥ ३७॥ (३७) अन्वयः-- निःस्तुतिः निर्नमस्कारः निःस्वधाकारः एव च, चलाचलनिकेतः च यतिः यादृच्छिकः भवेत् । तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः । तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत् ॥ ३८ ॥ (३८) अन्वयः--- आध्यात्मिकं तत्वं दृष्ट्वा, बाह्यतः तु तत्त्वं दृष्ट्वा तत्त्वीभूतः तदारामः तत्त्वात् अप्रच्युतः भवेत् । इति गौडपादीयकारिकायां द्वितीय प्रकरणम् । तृतीयं प्रकरणम् । उपासनाश्रितो धर्मो जाते ब्रह्माणि वर्तते । प्रागुत्पत्तेरजं सर्वं तेनासौ कृपणः स्मृतः ॥ १॥ (१) अन्वयः- ब्रह्मणि जाते उपासनाश्रितः धर्मः वर्तते; सर्व उत्पत्तेः प्राक् अजम् ; तेन असौ ( धर्मः ) कृपणः स्मृतः । + (37) Disassociated with praise, disassociated with salutation and quite disassociated with the utterance of Svadhā ( that is, per- formance of Sraddha rites in honour of Pitrs j, and having no fixed residence whatever, one should become an ascetic acting according to [ his ] will [ or, chance ]. (38) Having realised the truth relating to within the body, having realised as well the truth from ourside [ that is, relating to objects outside ), having become the Reality, delighting in it, one should not be slipping away from the reality. Here ends the Second Chapter in the Gandapāda-karika THIRD CHAPTER (1) Dharma [ Jiva] associated with devotion arises when Brahman is [ regarded as having been ) born. Prior to birth, all [is ) unborn: therefore he [ Dharma, Jiva is ] traditionally known as pitiable.