पृष्ठम्:गौडपादकारिका.pdf/76

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितयं प्रकरणम् । १७
यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति ।
ते चावति स भूत्वासौ तद्ग्रहः समुपैति तम् ॥ २९ ॥

(२९) अन्वयः--“ यस्य यं भावं दर्शयेत् सः तु तं भावं पश्यति;
असौ भूत्वा सः च तम् अवति, तद्ग्रहः तं समुपैति ।

एतैरेषोऽपृथग्भावैः पृथगेवेति लक्षितः ।
एवं यो वेद तत्त्वेन कल्पयेत्सोऽविशङ्कितः ॥ ३० ॥

(३० ) अन्वयः-- एषः ( आत्मा ) एतैः अपृथग्भावैः पृथक् एव इति
लक्षितःयः एवं तत्त्वेन वेद सः अविंशङ्कितः ( सन्) कल्पयेत् ।

स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा ।
तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः ॥ ३१ ॥

( ३१ ) अन्वयः-- यथा स्वप्नमाये दृष्टे, यथा गन्धर्वनगरं ( दृष्टं ), तथा
वेदान्तेषु विचक्षणैः इदं चित्रं दृष्टम् ।

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थतr ॥ ३२ ॥

( ३२ ) अन्वयः - निरोधः न, उत्पत्तिः च न; बद्धः न, साधकः च
न; मुमुक्षुः न, मुक्तः वै न; इति परमार्थता एषा ।

( 29 ) What entity [ one } would present to one, he again
sees that entity. And that [ entity, having assumed his form, pro.
tects him; strong attachment to that [ entity } encompasses him.
(3० ) This [ (Atman ] is noticed as indeed separate, owing to
these entities { though really non-separate. One who knows thus as
the real state of things, may imagine [ Atman to be any thing ] with-
out hesitation.
( 3 ) As are seen dream and Maya [ illusion , as [ is seen )
the Gandharva-city [ castle in the air], so is seen this universe by
the well-versed in the Vedantas,
( 32 ) Neither destruction, nor again origination; neither one
bound down { to this samsara , nor again aspirant [ or, one
working ) for salvation; neither one desirous of salvation, nor again
one emancipated-thus [ is } this highest truth ,