पृष्ठम्:गौडपादकारिका.pdf/75

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गौडपादीयकारिका । मन इति मनोविदो बुद्धिरिति च तद्विदः । चित्तमिति चित्तविदो धर्माधर्मौ च तद्विदः ॥२५॥ (२५) अन्वयः- मनः इति मनोविदः, बुद्धिः इति च तद्विदः, चित्तम् इति चित्तविदः, धर्माधर्मौ च तद्विदः । पञ्चविंशक इत्येके षड्विंश इति चापरे । एकत्रिंशक इत्याहुरनन्त इति चापरे ॥ २६ ॥ (२६) अन्वयः-- पञ्चविंशकः इति एके, षड्विंशः इति च अपरे, एकत्रिंशकः इति ( अपरे) आहुः, अनन्तः इति च अपरे। लोकाँल्लोकविदः प्राहुराश्रमा इति तद्विदः । स्त्रीपुंनपुंसकं लैङ्गाः परापरमथापरे ॥ २७ ॥ (२७) अन्वयः-- लोकविदः लोकान् , तद्विदः आश्रमाः इति,लैङ्गाः स्त्रीनपुंसकं, अथ अपरे परापरं प्राहुः । सृष्टिरिति सृष्टिविदो लय इति च तद्विदः । स्थितिरिति स्थितिविदः सर्वे चेह तु सर्वदा ॥ २८ ॥ (२८) अन्वय:---- सृष्टिः इति सृष्टिविदः, लयः इति च तद्विदः, स्थितिः इति स्थितिविदः-सर्वे च (भेदाः) तु सर्वदा इह (आत्मनि कल्प्यन्ते)। (25) as Mind, the Mind-knowers; and as Intellect, the Knowers of it [ Buddhi ]; as Thought, the Thought-knowers; and Merit and Demerit, the Knowers of them [ Dharma and Adharma]; (26) Some speak of (Atman ] as constituted of twenty-five; and as constituted of twenty-six, others; ( some ) as constituted of thirty-one; and as unending, others. (27) The Loka-knowers speak of [ Atman ] as People [Lokas 1; as Aśramas, the Knowers of them [ Aśramas, modes of life ]; the Laingas [ grammarians, or knowers of sex ], as Male, Female and Neuter; and others, as higher and lower ; (28) as Creation, the Knowers of creation; and as Dissolution, the Knowers of dissolution [ Laya ] ; as Subsistence [ Sthiti ], the Knowers of subsistence, and all these [ are imagined ] again, always here [ in respect of Atman ].