पृष्ठम्:गौडपादकारिका.pdf/74

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयं प्रकरणम् । १५ पादा इति पादविदो विषया इति तद्विदः । लोका इति लोकविदो देवा इति च तद्विदः ॥ २१ ॥ (२१) अन्वयः-- पादाः इति पादविदः, विषयाः इति तद्विदः, लोकाः इति लोकविदः, देवाः इति च तद्विदः । वेदा इति वेदविदो यज्ञा इति च तद्विदः । भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः ॥२२॥ (२२) अन्वयः-- वेदाः इति वेदविदः, यज्ञाः इति च तद्विदः, भोक्ता इति च भोक्तृविदः, भोज्यम् इति च तद्विदः । सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः । मूर्त इति मूर्तविदोऽमूर्त इति च तद्विदः ॥ २३ ॥ (२३) अन्वयः--- सूक्ष्मः इति सूक्ष्मविदः, स्थूलः इति च तद्विदः, मूर्तः इति मूर्तविदः, अमूर्तः इति च तद्विदः । काल इति कालविदो दिश इति च तद्विदः । वादा इति वादविदो भुवनानीति तद्विदः ॥ २४ ॥ (२४) अन्वयः --- कालः इति कालविदः, दिशः इति च तद्विदः, वादाः इति वादविदः, भुवनानि इति तद्विदः । " (21) As Padas, the Pada-knowers; as Objects, the Knowers or them [ objects ]; as the Lokas, the Loka-knowers; and as Gods, the Knowers of them [ gods ]; ( 22 ) as Vedas, the Veda-knowers; and as Sacrifices, the Knowers of them [ sacrifices ];, as the Enjoyer, the Enjoyer-knowers; and as the Object of enjoyment, the Knowers of it [ the Bhojya ] (23) as the Subtle, the Subtle knowers; and as Gross, the Knowers of it [ Sthula ]; as the Murta [ possessed of form ], the Mürta-knowers; and as the Form-less, the Knowers of it [ Amûrta ); (24) as Kala [ time, the Kala-knowers; and as the Quarters, the Knowers of them [ Disah ]; as Vadas [ discussions, theories ], the Vada-knowers; as Worlds, the Knowers of them [ Bhuvanas ];