पृष्ठम्:गौडपादकारिका.pdf/73

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गौडपादीयकारिका । अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता। सर्पधारादिभिर्भावस्तद्वदात्मा विकल्पितः ॥ १७ ॥ (१७) अन्वयः-- यथा अन्धकारे अनिश्चिता रज्जुः सर्पधारादिभिः भावैः विकल्पिता तद्वत् आत्मा विकल्पितः । निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते । रज्जुरेवेति चाद्वैतं तद्वदात्मविनिश्चयः ॥ १८ ॥ (१८) अन्वयः-- यथा निश्चितायां रज्ज्वां विकल्पः विनिवर्तते, रज्जुः एव इति अद्वैत (निष्पद्यते ), तद्वत् आत्मविनिश्चयः । प्राणादिभिरनन्तैश्च भावैरेतैर्विकल्पितः। मायैषा तस्य देवस्य यया संमोहितः स्वयम् ॥ १९ ॥ (१९) अन्वयः---- (आत्मा) प्राणादिभिः एतैः अनन्तैः भावैः च विकल्पितः; तस्य देवस्य एषा माया यया स्वयं संमोहितः। प्राण इति प्राणविदो भूतानीति च तद्विदः । गुणा इति गुणविदस्तत्त्वानीति च तद्विदः ॥२०॥ (२०) अन्वयः-- (आत्मा) प्राणः इति प्राणविदः (विकल्पन्ते), भूतानि इति च तद्विदः, गुणाः इति गुणविदः, तत्त्वानि इति च तद्विदः । (17) As the rope, [ with its nature ] not definitely ascertained in the dark, is imagined to be [ possessed of the nature of ] entities like the serpent, [ water-] line etc; so likewise [ is ] Atman imagined [ to be all sorts of things ]. (18) When the rope is definitely ascertained [ as the rope ], the imagined attribute turns away, and the non-duality [ emerges ] in the form ( iti ) [ This is ] the rope itself' So likewise, [ takes place ] the ascertaiment of Atman. (19) [ Atman ] is imagined to be Prana [ life ] etc. and these innumerable entities. This [ is ] the Maya of that shining one [ [ Atman ] by which [ he ] himself has been deluded. (20) As Prāņa, the Prāņa-knowers ( imagine Atman ]; and as Bhutas [ elements ], Knowers of them the Bhutas ]; as Gunas, the Guna-knowers, and as Tattvas, the Knowers of them the Tattvas 7: