पृष्ठम्:गौडपादकारिका.pdf/72

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयं प्रकरणम् । विकरोत्यपरान्मावानन्तश्चित्ते व्यवस्थितान् । नियतांश्च बहिश्चित्त एवं कल्पयते प्रभुः ॥ १३ ॥ (१३) अन्वयः- ( आत्मा) बहिश्चित्तः ( सन् ) अन्तश्चित्ते व्यव- स्थितान् नियतान् च अपरान् भावान् विकरोति-एवं प्रभुः कल्पयते । चित्तकाला हि येऽन्तस्तु द्वयकालाश्च ये बहिः । कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ॥ १४ ।। (१४) अन्वयः-- ये हि तु अन्तः चित्तकालाः, ये च बहिः द्वयकालाः, ते सर्वे कल्पिताः एव; अन्यहेतुकः विशेषः न । अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः । कल्पिता एव ते सर्वे विशेषस्त्विन्द्रियान्तरे ॥ १५ ॥ (१५) अन्वयः-- ये तु अन्तः अव्यक्ताः एव, ये च बहिः स्फुटाः एव, ते सर्वे कल्पिताः एव; विशेषः तु इन्द्रियान्तरे। जीवं कल्पयते पूर्व ततो भावान्पृथग्विधान् । बाह्यानाध्यात्मिकांश्चैव यथाविधस्तथास्मृतिः ॥ १६ ॥ (१६) अन्वयः- - (प्रभुः) पूर्वं जीवं कल्पयते, ततः बाह्यान् आध्यात्मिकान् च एव पृथग्विधान् भावान् ( कल्पयते); यथाविद्यः तथास्मृतिः (जीवः)। (13) [ The Atman ], outward-minded, diversities other enti- ties, -- [ those ] differently set up, as also ( those ) fixed up within the mind; thus does the Lord imagine. (14) Those thought-timers [ lasting as long as the thought lasts] within likewise, and the duality-timers ( amenable to the grahya-grahaka formula ] outside-all those [ are ] mere products of imagination [ lit. imagined ]; the differentiation [ between the two is ] not due to any other reason. (15) Those again [ that are } just unmanifest within, and those that are ] just manifest without-all those [ are ] mere products of imagination [ lir. imagined ]; the differentiation again [ lies ] in [ being associated with ] different organs of sense. (16) [The Lord ] first imagines the Jiva ( the individual soul ], then, verily, the entities of various sorts, external objective ] and internal [ subjective ]; as one cognises so one remembers.