पृष्ठम्:गौडपादकारिका.pdf/71

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२ गौडपादीयकारिका। , स्वप्नवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् । बहिश्चेतोगृहीतं सद् दृष्टं वैतथ्यमेतयोः ॥९॥ (९) अन्वयः-- ( स्वप्नवृत्तौ अपि तु चेतसा अन्तःकल्पितं तु असत् ,

बहिः चेतोगृहीतं सत् ; एतयोः वैतथ्यं दृष्टम् ।

जाग्रद्वृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् । बहिश्चेतोगृहीतं सद्युक्तं वैतथ्यमेतयोः ॥१०॥ (१०) अन्वयः--- - जानवृत्तौ अपि तु चेतसा अन्तःकल्पितं तु असत्,बहिः चेतोगृहीतं सत् ; एतयोः वैतथ्यं युक्तम् । उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि। क एतान्बुध्यते भेदान्को वै तेषां विकल्पकः ॥ ११ ॥ (११) अन्वयः- ( यदि भेदानाम् उभयोः स्थानयोः अपि वैतथ्यम्-, कः एतान् भेदान् बुध्यते, कः वै तेषां विकल्पकः । कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया । स एव बुध्यते भेदानिति वेदान्तनिश्चयः ॥ १२ ॥ (१२) अन्वयः-- देवः आत्मा स्वमायया आत्मानम् आत्मना कल्पयति, सः एव भेदान् बुध्यते इति वेदान्तनिश्चयः । (9) Even in the dream-state, again, what is imagined by the mind within [ is ] verily (tu.) non-existing: what is apprehended by the mind outside [ is ] existing -[so people differentiate, but in reality ] the unreality of these two [ is actually ] seen [ or, experi- enced ). ( 10 ) Even in the waking state, again, what is imagined by the mind within ( is ] verily ( tu ) non-existing; what is apprehended by the mind outside [is] existing-the unreality of these two [ ought co be held to be likewise ] reasonable. (1) If there [ is thus ] unreality of entities in even both the states, who [ then] cognises these entities? Who, again (vai ), their imaginer ? (12) The shining Atman imagines himself by himself, through his Māyā; [ it is ] he alone { that ] cognises the entities--this [ is ] the conclusion of the Vedanta [Upanisads ].