पृष्ठम्:गौडपादकारिका.pdf/70

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयं प्रकरणम् । ११ स्वप्नजागरितस्थाने ह्येकमाहुर्मनीषिणः । भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना ॥ ५ ॥ (५) अन्वयः-- मनीषिणः हि प्रसिद्धेन एव हेतुना भेदानां हि समत्वेन, स्वप्नजागरितस्थाने एकम् आहुः । आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा । वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ ६ ॥ (६) अन्वयः- यत् आदौ अन्ते च न अस्ति, वर्तमाने अपि तत् तया (न अस्ति); वितथैः सदृशाः सन्तः (भेदाः) अवितथाः इव लक्षिताः। सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते । तस्मादाधन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ ७ ॥ (७) अन्वयः-- तेषां (भेदानां ) सप्रयोजनता स्वप्ने विप्रतिपद्यते, तस्मात् खलु ते आद्यन्तवत्वेन मिथ्याः एव स्मृताः । अपूर्वं स्थानिधर्मो हि यथा स्वर्गनिवासिनाम् । तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः ॥ ८॥ (८) अन्वयः-- यथा स्वर्गनिवासिनां ( तथा ) स्थानिधर्म:-( एतत् ) अपूर्वम् ; यथा एव इह सुशिक्षितः (तथा ) अयं (स्थानी ) गत्वा तान् (भेदान् ) प्रेक्षते। (5) The wise speak of the dream and waking states as one, verily, on account of the common nature of entities (in the two states ] on the strength of well-established reasoning. (6) What is not at the beginning and at the end, [ is ] so also in the present; existing [ things ] [ though ] similar to illusions are noted as though real. (7) Being possessed of a purpose in the case of ] the enti- ties [ in the waking state ] is contradicted in the dream; therefore they indeed are traditionally known as unreal and nothing else (eva) on account of [ their ] having a beginning and an end. (8) [ It is all ] wonderful ! verily, the nature of the local agent. in dream, is ] as [ in the case of the dwellers in heaven. As indeed a well-trained person here, [so ] this [ person dreaming ] sees those various objects or regions ], having gone [ there ].