पृष्ठम्:गौडपादकारिका.pdf/69

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गौडपादीयकारिका। , द्वितीयं प्रकरणम् । वैतथ्यं सर्वभावानां स्वप्न आहुर्मनीषिणः । अन्तःस्थानात्तु भावानां संवृतत्वेन हेतुना ॥१॥ (१ अन्वयः- मनीषिणः स्वप्ने तु संवृतत्वेन हेतुना भावानाम् अन्तःस्थानात् सर्वभावानां वैतथ्यम् आहुः । अदीर्घत्वाञ्च कालस्य गत्वा देशान्न पश्यति । प्रतिबुद्धश्च वै सर्वस्तस्मिन्देशे न विद्यते ॥ २ ॥ (२) अन्वयः- (पुरुषः ) कालस्य अदीर्घत्वात् च देशान् गत्वा न पश्यति; सर्वः वै प्रतिबुद्धः च तस्मिन् देशे न विद्यते। अभावश्च रथादीनां श्रूयते न्यायपूर्वकम् । वैतथ्यं तेन वै प्राप्त स्वप्न आहुः प्रकाशितम् ॥ ३ ॥ ( ३ ) अन्वयः-- रथादीनाम् अभावः च न्यायपूर्वकं श्रूयते, तेन वै प्राप्त वैतथ्यं स्वप्ने प्रकाशितम् आहुः (ब्रह्मविदः)। अन्तःस्थानात्तु भेदानां तस्माज्जागरिते स्मृतम् । यथा तत्र तथा स्वप्ने संवृतत्वेन भिद्यते ॥४॥ (४) अन्वयः---- तस्मात् भेदानाम् अन्तःस्थानात् तु जागरिते (वैतथ्यं ) स्मृतम् ; यथा तत्र (जागरिते भेदानाम् अन्तःस्थानं ) तथा स्वप्ने संवृतत्वेन (स्वप्नः जागरितात् ) भिद्यते । SECOND CHAPTER (1) The wise speak of the unreality of all_entities in dream, verily, on account of the entities having [ their ] location within, owing to [ their ] being enclosed. (2) And on account of the time being not long, [ a person ] does not see [ things in a dream , having [ actually.] gens over to [ different ] regions, and further, I when ] awakened, every one is nor in that region [ which he had travelled over to in the dream ]. (3) The negation of chariots and others [ seen in dream ] is shown in the Sruti along with [ the soul's ] entering and going out [ of ( nyaya ) [ the different states ]; they speak of the unreality as indeed proved by that ( statement ), as being evident in dream. (4) Therefore, again, [ the unreality of entities ] in the waking state is traditionally known, from the location within of the entities. As it that is, the location within of entities] there [ in the waking state ], so in dream. [ Bur waking state and dream are not the same; dream ] differs [ from the waking state owing to its being characterised ] by the state of being enclosed.