पृष्ठम्:गौडपादकारिका.pdf/68

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमं प्रकरणम् । प्रणवो ह्यपरं ब्रह्म प्रणवश्च पर स्मृतः । अपूर्वोऽनन्तरोऽबाह्योऽनपर प्रणवोऽव्ययः ॥ २६ ॥ (२६) अन्वयः--प्रणवः हि अपरं ब्रह्म, प्रणवः च परः स्मृतः; प्रणवः अपूर्वः अनन्तरः अबाह्यः अनपरः अव्ययः । सर्वस्य प्रणवो ह्यादिमध्यमन्तस्तथैव च । एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ २७ ॥ (२७) अन्वयः--प्रणवः हि सर्वस्य आदिः मध्यं तथा एव च अन्तः एवं हि प्रणवं ज्ञात्वा अनन्तरं तत् [ or, तदनन्तरं प्रणवं ] व्यश्नुते । प्रणवं हीश्वरं विद्यात्सर्वस्य हृदि संस्थितम् । सर्वव्यापिनमोंकारं मत्वा धीरो न शोचति ॥ २८ ॥ (२८) अन्वयः---प्रणवं हि सर्वस्य ह्रदि संस्थितम् ईश्वरं विद्यात् । धीरः सर्वव्यापिनम् ओंकारं मत्वा न शोचति । अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः । ओंकारो विदितो येन स मुनिर्नेतरो जनः ॥ २९ ॥ (२९) अन्वयः--येन अमात्रः, अनन्तमात्रः च, द्वैतस्य उपशमः, शिवः ओंकारः विदितः सः मुनिः, इतरः जनः न (मुनिः )। इति गौडपादीयकारिकायां प्रथम प्रकरणम् । ( 26 ). Praņava indeed ( is ] the lower Brahman, Pranava like- wise (ca) [ is ] the Higher [ Atman ). Beginningless, undifferen- tiated, [or, without inside], without outside, unique [ and ] immutable [' is ] Pranaya. (27) Pranava indeed [ is ] the beginning, middle and like- wise the end itself of everything. Having indeed known Pranava thus, one attains to it [ Brahman ] immediately for, attains to Pranava afterwards 7. (28) One should indeed know Pranava as the Lord well set up in the heart of all. Having thought of the all-pervading Omkāra, the wise one does not grieve. ( 29 ) He, by whom has been known the Omkāra, portion- less, possessed likewise of infinite portions, the [ cause of ] cessation of duality, [ and ] auspicious, [is ] the sage, nor any other. Here ends the First charter in the Gaudapada-karika 2