पृष्ठम्:गौडपादकारिका.pdf/65

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गौडपादीयकारिकाः। प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ १७ ॥ (१७) अन्वयः--यदि प्रपञ्चः विद्युत (तर्हि सः) निवर्तेत, न संशयः; इदं द्वैतं मायामात्रम् ; परमार्थतः अद्वैतम् ( एव विद्यते)। विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ १८ ॥ (१८) अन्वयः-- ---यदि केनचित् विकल्पः कल्पितः (तर्हि सः विकल्पः ) विनिवर्तेत; अयं ( विकल्प-) वादः उपदेशात् ; ( परमार्थतत्त्वे ) ज्ञाते द्वैतं न विद्यते। [ सोऽयमात्माध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥ ८॥ जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रातरादिमत्त्वाद्वा । आप्नोति ह वै सर्वान्कामानादिश्च भवति य एवं वेद ॥९॥ स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुमयत्वाद्वा । उत्कर्षति ह वै

ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित्कुले भवति य एवं वेद ॥ १० ॥ सुषुप्तस्थानः प्राज्ञो मकारतूस्तीया मात्रा मितेरपीतेर्वा । मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ।। ११ ।।] ( अत्रैते श्लोका भवन्ति ) (17) If the projected creation (Prapanca ) were [ really ] existing, it would continue to be, no doubt. [ But ] this duality is just Māyā [ illusion, appearance ]; I there is only ) non-duality in reality. (18) If [ some ) illusion is imagined by some one, it is liable to [ or could } be turned away. This statement [ involving Vikalpa, is on account of its usefulness for ] instruction; when [ the Highest is ] known, duality does not exist.