पृष्ठम्:गौडपादकारिका.pdf/64

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमं प्रकरणम् । द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः । बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ १३ ॥ (१३) अन्वयः--

--द्वैतस्य अग्रहणम् उभयोः प्राज्ञतुर्ययोः तुल्यम्;

प्राज्ञः बीजनिद्रायुतः; सा ( बीजनिद्रा ) च तुर्ये न विद्यते । स्वमनिद्रायुतावाद्यौ प्राज्ञस्त्वस्वमनिद्रया । न निद्रां नैव च स्वप्नं तुर्य पश्यन्ति निश्चिताः ॥ १४ ॥ (१४) अन्वयः--आद्यौ (विश्वतैजसौ) स्वप्ननिद्रायुतौ; प्राज्ञः तु अस्वप्ननिद्रया (युतः ); निश्चिताः तुर्ये निद्रां न, स्वप्नं च न एवं पश्यन्ति । अन्यथा गृह्णतः स्वमो निद्रा तत्त्वमजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ १५ ॥ (१५) अन्वयः-तत्त्वम् अन्यथा गृह्णतः (पुरुषस्य ) स्वप्नः, तत्त्वम् अजानतः (पुरुषस्य ) निद्रा तयोः ( स्वप्ननिद्रयोः) विपर्यासे क्षीणे (सति पुरुषः ) तुरीयं पदम् अश्नुते । अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्नममद्वैत बुध्यते तदा ॥ १६ ॥ (१६) अन्वयः---यदा अनादिमायया सुप्तः जीवः प्रबुध्यते, तदा अजम् अनिन्द्रम् अस्वप्नम् अद्वैतं बुध्यते। (13) The non-perception of duality [ is ] common to both Prajña and Turya. Prājña ( is } stuck up with the causal sleep, while it does not exist in Turya. (14) The first two [ that is, Visva and Taijasa are ] stuck up with dream and sleep, Prājña, on other hand, with dreamless sleep. The convinced ones [ about Advaita ] do see in Turya neither sleep, nor again dream for the matter of that. (15) Dream ( is ) for one comprehending reality otherwise ; sleep for one who does not know reality. When the wrong apprehension in those two becomes extinct, one attains to the Fourth stage. (16) When the individual Soul, asleep, owing to the beginning-less Máyi is awakened, he then realises the unborn, sleepless, dreamless non-duality.