पृष्ठम्:गौडपादकारिका.pdf/63

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गौडपादीयकारिकाः। ' [नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानधनं न प्रज्ञं नाप्रज्ञम् ।। अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥७॥] ( अत्रैते श्लोका भवन्ति) निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः । अद्वैतः सर्वभावानां देवस्तुर्यों विभुः स्मृतः ॥१०॥ (१०) अन्वयः-सर्वदुःखानां निवृत्तेः ईशानः, प्रभुः, अव्ययः, सर्वभावानाम् अद्वैतः देवः विभुः तुर्यः स्मृतः । कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिध्यतः ॥११॥ (११) अन्वयः--तौ विश्वतैजसौ कार्यकारणबद्धौ इष्येते; प्राज्ञः तु कारणबद्धः ( इष्यते); तौ द्वौ तुर्ये न सिध्यतः । नात्मानं न परांश्चैव न सत्यं नापि चानृतम् । प्राज्ञः किंच न संवेत्ति तुर्य तत्सर्वदृक्सदा ।। १२ ।। (१२) अन्वयः-प्राज्ञः, आत्मानं न, परान् च एव न, सत्यं न, अनृतं च अपि न, किंच न संवेत्ति; तत् तुर्यं सदा सर्वदृक् । (10) The All-pervading is traditionally known as Turya [ the Fourth ]- capable of controlling the cessation of all miseries, powerful, immutable, non-dual among all entities, refulgent. (11) Those two I well-known ) Visva and Taijasa are taken [ lit. desired ] to be conditioned by cause and effect; Prājña, on the other hand, | is j conditioned by cause [ alone }; those two [ the cause and effect ] have no locus standi in [ the case of ] Turya. (12) Neither the Self, nor others again, for the matter of that ; neither truth, nor again the untruth-nothing whatever does Prājña comprehend. That Turya however [is] always all-seeing.