पृष्ठम्:गौडपादकारिका.pdf/61

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गौडपादीयकारिकाः। दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥२॥ (२) अन्वयः-(एकः एव विभुः ) विश्वः दक्षिणाक्षिमुखे, तैजसः तु मनसि अन्तः, प्राज्ञः च हृदि आकाशे ( इति ) देहे त्रिधा व्यवस्थितः । विश्वो हि स्थूलभूङ्नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक्तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥३॥ (३) अन्वयः-नित्यं विश्वः हि स्थूलभुक्, तैजसः प्रविविक्तभुक्, तथा प्राज्ञः आनन्दभुक् (इति) त्रिधा भोगं निबोधत । स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् । आनन्दश्च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत ॥४॥ (४) अन्वयः-स्थूलं विश्वं तर्पयते, प्रविविक्तं तु तैजसं (तर्पयते), तथा आनन्दः प्राज्ञं (तर्पयते), ( इति ) त्रिधा तृप्ति निबोधत । त्रिषु धामसु योज्यं भोक्ता यश्च प्रकीर्तितः । वैदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥५॥ (५) अन्वयः- -त्रिषु धामसु यद् भोज्यं (प्रकीर्तितम् ), यः च भोक्ता प्रकीर्तितः-यः तु एतत् उभयं वेद, भुञ्जानः (अपि सन् ) सः न लिप्यते। (2) [One and the same All-pervading] is well set up three- fold in the body--Viśva in the front of the right eye, Taijasa again, inside in the mind, and Prājña in the Åkāśa ( void, sky) in the heart. (3) For (hi), always, Viśva [ is ] the enjoyer of the gross, Taijasa [ is ] the enjoyer of the rarified, Prājña likewise [ is ] the enjoyer of bliss-know the enjoyment [ thus to be ] three-fold. (4) The gross gratifies Visva; the rarified again, Taijasa; and bliss likewise, Prajna--- know gratification [ thus to be ] three-fold. (5) What enjoyable [ is proclaimed ] in the three abodes, ] and what enjoyer is proclaimed [ in the three abodes ] - he again, who knows this dual, [ although ] enjoying, is not contaminated.