पृष्ठम्:गौडपादकारिका.pdf/60

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः। गौडपादीयकारिकाः। [ अथ माण्डूक्योपनिषत् । हरिः ॐ। ओमित्यदक्षरमिदं सर्व तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोङ्कार एव । यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥ १॥ सर्व ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥२॥ जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥३॥ स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥४॥ यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत्सुषुप्तम् ।। सुषुप्तस्थान एकीभूतः प्रज्ञानधन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञ- स्तृतीयः पादः ॥५॥ एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६॥] (अत्रैते श्लोका भवन्ति) प्रथमं प्रकरणम् । बहिष्प्रज्ञो विभुर्विश्वो ह्यन्ताप्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥१॥ (१) अन्वयः--एकः एव विभुः बहिष्प्रज्ञः हि विश्वः, अन्तःप्रज्ञः तु तैजसः, तथा घनप्रज्ञः प्राज्ञः ( इति ) त्रिधा स्मृतः । Sri Gaudapada-Karika FIRST CHAPTER (1) One and the same All-pervading is traditionally known [ lit. remembered ] (as being ] three-fold-(1) Visva, cogniser of outside, ( 2 ) Taijasa again, cogniser of inside, [ and ] ( 3 ) Prājña, likewise, cognition massed,