पृष्ठम्:गौडपादकारिका.pdf/128

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Chapter 1 Chandogya :ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्यद्गायति तस्योपव्याख्यानम् । I.1. ! वागेवर्क् प्राणः सामोमित्येतदक्षरमुद्गीथस्तदा एतन्मिथुनं यद्वार्क् च प्राणश्चर्क, च । साम च। तदेतन्मिथुनमोमित्यस्मिन्नक्षरे ससृज्यते ... I. 1.5.6 तेनेयं त्रयी विद्या वर्तते ओमित्याश्रावयत्योमिति शँसत्योमित्युदायत्येतस्यैवाक्षरस्यापचित्यै महिना रसेन । I.1.8 बदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवँसामैव यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभवन् । I.4.4 अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इत्यसौ वा आदित्य उद्गीथ एव प्रणव ओमिति ह्येष स्वरन्नेति । I... प्रजापतिर्लोकावभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या संप्रास्रवत्तामभ्यतपत्तस्था अभितप्ताया एतान्यक्षराणि संप्रास्रवन्त भूर्भुवःस्वरिति । II.13.2 तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ॐकारः संप्रास्त्रवत्तद्यथा । शङ्कुना सर्वाणि पर्णानि संतृण्णान्येवमोङ्कारेण सर्वा वाक् संतृगणोङ्कार एवेद सर्वमोङ्कार एवेदँसर्वम् ।। II. 13.3 अर्वाग्विचरत एतौ प्राणादित्या एता उपासीतोमित्यक्षरेण व्याहृतिभिः सावित्र्या चेति || VI.2 Maitri :---- हे वाव ब्रह्मणो रूपे मूर्ते चामूर्ते चाथ यन्मर्ते तदसत्यं यदमूर्तं तत्सत्यं तद्ब्रह्म तज्ज्योतिर्यज्ज्योतिः स आदित्य स वा एष ओमित्येतदात्माभवत्स त्रेधात्मानं व्यकुरुतौमिति तिस्त्रो मात्रा एताभिः सर्वमिदमोतं प्रोतं चैवास्मीत्येवं ह्याहैतद्वा आदित्य ओमित्थं ध्यायतात्मानं युञ्जीतेति ! VI.3 अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथः । इत्यसौ वा आदित्य उद्गीथ एष प्रणव इत्येवं ह्याहोद्गीथं प्रणवाख्यं प्रणेतारं भारूपं विगतनिद्रं विजरं विमृत्यु त्रिपदं त्रयक्षरं पुनः पश्चधा ज्ञेयं निहितं गृहायामित्येवं ह्याह। ... ओमित्येतदक्षरस्य चैतत् तस्मादोमित्यनेनैतदुपासीताजस्रमिति । ... एतदेवाक्षरं पुण्यमेतदेवाक्षरं परम् । एतदेवाक्षरं ज्ञात्या यो यदिच्छति तस्य तत् । VI.4 अथान्यत्राप्युक्तं स्वनवत्येषास्य ततः । ओमिति स्त्रीपुंनपुंसकेति लिङ्गवत्येषा अथ अग्निर्वायुरादित्य इति भास्वत्येषा अथ ब्रह्म रुद्रो विष्णुरिति अधिपतिवत्येषा अथ ऋक्यजुःसामेति विज्ञानवत्येषा