पृष्ठम्:गौडपादकारिका.pdf/127

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

68 Notes on Gandapada-Karika uses for meditation and fruit of ओंकारोपासना. The following extracts will be found interesting in this connection. Kathopanisad : सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पदं संग्रहेण ब्रवीमि ।। ओमित्येतत् ॥ I.215 एतद्धेवाक्षरं ब्रह्म ह्येतदेवाक्षरं परम् | पतद्धेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् I.12.16 एतदालम्बनं श्रेष्टमेतदालम्बनं परम् । एतदालम्बनं ज्ञावा ब्रह्मलोके महीयते ।। I.12.17 Prasnopanisad : एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कार स्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ।। V.2 स यद्येकमानमाभिध्याधीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसंपद्यते । तस्यो लोकप्नुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति । V. 3 अथ यदि द्विमात्रेण मनसि संपद्यते सोऽन्तरिक्षे यजुर्भिरन्नीयते स सोमलोकं स सोमलोके विभूतिमनुभूय पुनरावर्तते ।। V.4 यः पुनरेतत्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः । यथा पादोदरस्त्वचा विनिर्मुच्येत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवधनापरात्परं पुरिशयं पुरुषमीक्षते ॥ तदेतौ श्लोको भवतः । V.5 तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनुविप्रयुक्ताः। क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ।। 1.6 ऋग्भिरतं यजुर्भिरतरिक्षं ससामभिर्यत्तत्कवयो वेदयन्ते । तमोङकारेणैवायतनेनान्वेति विद्वान्यत्तस्छान्तमजरममृतमभयं परं चेति ॥ .7 Mundaka : -- प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् || II.2.4 Taittiriya: ओमिति ब्रह्म। ओमितीदसर्वम् । ओमित्येतदनुकृतिर्ह स्म वा अप्यो श्रावयेत्याश्रावयन्ति ।। ओमिति सामानि गायन्ति । ओ शामिति शस्त्राणि शसन्ति ॥ ओमिस्पध्वर्यु: प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रस्तौति । ओमित्यग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपानवानीति ब्रह्मैवोपाप्नोति । I.8