पृष्ठम्:गौडपादकारिका.pdf/114

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थ प्रकरणम् । 7 आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः। सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम् ॥ ९३ ।। (९३) अन्वयः---- सर्वे धर्माः हि आदिशान्ताः अनुत्पन्नाः प्रकृत्या एव सुनिर्वृताः समाभिन्नाः; अजं साम्यं विशारदम् । वैशारद्यं तु वै नास्ति भेदे विचरतां सदा । भेदनिम्नाः पृथग्वादास्तस्मात्ते कृपणाः स्मृताः ।। ९४ ।। (९४) अन्वयः--- सदा भेदे विचरतां तु वैशारद्यं वै नास्ति; पृथग्वादाः भेदनिम्नाः, तस्मात् ते कृपणाः स्मृताः । अजे साम्ये तु ये केचिद्भविष्यन्ति सुनिश्चिताः । ते हि लोके महाज्ञानास्तच्च लोको न गाहते ॥ ९५ ॥ (९५) अन्वयः- ये केचित् तु अजे साम्ये सुनिश्चिताः भविष्यन्ति ते हि लोके महाज्ञानाः, लोकः तत् च न गाहते । अजेष्वजमसंक्रान्तं धर्मेषु ज्ञानमिष्यते । यतो न क्रमते ज्ञानमसंगं तेन कीर्तितम् ॥ ९६ ॥ (९६) अन्वयः-- अजेषु धर्मेषु अजं ज्ञानम् असंक्रान्तम् इष्यते; यतः ज्ञानं न क्रमते तेन असंगं कीर्तितम् । (93) All entities indeed ( are ) calm from the very beginning, unoriginated, quite happy [ in nirvana ] by nature itself, [ always the ] same and non-different. [ The highest is ] unoriginated, sameness and self-confident. ( 94 ) But there is indeed no self-confidence in the case of those who move about in [ a world of] difference. Those who hold the doctrine of separateness descend down to differences. Theretore they are traditionally known as nervous wrecks [ or, pitiable ]. (95). On the other hand (tu) whosoever those would be well set up in the unoriginated sameness, they { are ] indeed those of high knowledge in the world. The world [ in general ] however (ca) does not delve into it. (96) The unoriginated knowledge is fancied [ or, regarded ] as not crossing over to the unorigद्inated [entities]; as the knowledge does not cross over, it is therefore proclaimed to be ] without attachment.